Adhikāra 39

316
शुण्ठीपुनर्नवैरण्डपञ्चमूलशृतं जलम् ॥
वातिके श्वयथौ शस्तं पानाहारपरिग्रहे ॥ १ ॥
क्षीराशिनः पित्तकृते तु शोथे त्रिवृद्गुडूचीत्रिफलाकषायम् ॥
पिबेद्गवां मूत्रविमिश्रितं वा फलत्रिकाच्चूर्णमथाक्षमात्रम् ॥ २ ॥
पुनर्नवाविश्वत्रिवृद्गुडूचीशम्याकपथ्यामरदारुकल्कम् ॥
शोथे कफोत्थे महिषाक्षमूत्रयुक्तं पिबेद्वा सलिलं तथैषाम् ॥ ३ ॥
कफे तु कृष्णासिकतापुराणपिण्याकशिग्रुत्वगुमाप्रलेपः ॥
कुलत्थशुण्ठीजलमूत्रसेकश्चण्डागुरुभ्यामनुलेपनं च ॥ ४ ॥
अजाजिपाठाघनपञ्चकोलव्याघ्रीरजन्यः सुखतोयपीताः ॥
शोथं प्रवृद्धं चिरजं त्रिदोषं निघ्नन्ति भूनिम्बमहौषधे च ॥ ५ ॥
पिप्पल्यादिरजोनाम्ना चरके पठ्यते त्वयम् ॥
योगोऽत्र चविकास्थाने ग्राह्या मातङ्गपीप्पली ॥ ६ ॥
317
आर्द्रकस्य रसः पीतः पुराणगुडमिश्रितः ॥
अजाक्षीराशिनः शीघ्रं सर्वशोथहरो भवेत् ॥ ७ ॥
पुनर्नवादारुशुण्ठीक्वाथे मूत्रेऽथ केवले ॥
दशमूलरसे वाऽपि गुग्गुलुः शोथनाशनः ॥ ८ ॥
बिल्वपत्ररसं पाण्डु सोषणं श्वयथौ त्रिजे ॥
विट्सङ्गे चैव दुर्नाम्नि विदध्यात्कामलासु च ॥ ९ ॥
गुडपिप्पलिशुण्ठीनां चूर्णं श्वयथुनाशनम् ॥
आमाजीर्णप्रशमनं शूलघ्नं बस्तिशोधनम् ॥ १० ॥
पुरं मूत्रेण संसेव्यं पिप्पली वा पयोन्विता ॥
गुडेन वाऽभया तुल्या विश्वं वा शोथरोगिणाम् ॥ ११ ॥
गुडार्द्रकं वा गुडनागरं वा गुडाभयां वा गुडपिप्पलीं वा ॥
कर्षाभिवृद्ध्या त्रिपलप्रमाणं खादेन्नरः पक्षमथापि मासम् ॥ १२ ॥
शोथप्रतिश्यायगलास्यरोगा-
न्सश्वासकासारुचिपीनसादीन् ॥
जीर्णज्वरार्शोग्रहणीविकारा-
न्हन्यात्तथाऽन्यान्कफवातरोगान् ॥ १३ ॥
318
स्थलपद्ममयं कल्कं पयसाऽऽलोड्य पाययेत् ॥
प्लीहामयहरं चैव सर्वाङ्गैकाङ्गशोथजित् ॥ १४ ॥
क्षीरं शोथहरं दारुवर्षाभूनागरैः शृतम् ॥
पेयं वा चित्रकव्योषवृद्धदारुप्रसाधितम् ॥ १५ ॥
सिंहास्यामृतभण्टाकीक्वाथं पीत्वा समाक्षिकम् ॥
कृच्छ्रं शोथं जयेज्जन्तुः श्वासं कासं ज्वरं वमिम् ॥ १६ ॥
भूनिम्बविश्वकल्कं जग्ध्वा पेयः पुननर्वाक्वाथः ॥
अपहरति नियतमाशु श्वयथुं सर्वाङ्गगं नॄणाम् ॥ १७ ॥
त्रिफलायोरजःक्षारैः शोथजित्त्रिफलारसः ॥
यष्टीदुग्धतिलैर्लेपो नवनीतेन संयुतः ॥
शोथमारुष्करं हन्ति वृन्तैः शालदलस्य वा ॥ १८ ॥
319
शोथे विषनिमित्ते तु विषोक्ता शस्यते क्रिया ॥ १९ ॥
पुनर्नवाचित्रकदेवदारुपञ्चोषणक्षारहरीतकीनाम् ॥
कल्केन पक्वं दशमूलतोये घृतोत्तमं शोथनिषूदनं च ॥ २० ॥
रसे विपाचयेत्सर्पिः पञ्चकोलकुलत्थयोः ॥
पुनर्नवायाः कल्केन घृतं शोथविनाशनम् ॥ २१ ॥
सचित्रका धान्ययवानिपाठाः
सदीप्यकास्त्र्यूषणवेतसाम्लाः ॥
बिल्वात्फलं दाडिमयावशूकं
सपिप्पलीमूलमथापि चव्यम् ॥ २२ ॥
पिष्ट्वाऽक्षमात्राणि जलाढकेन
पक्त्वा घृतप्रस्थमथोपयोज्यम् ॥
अर्शांसि गुल्मं श्वयथुं च कृत्स्नं
निहन्ति वह्निं च करोति दीप्तम् ॥ २३ ॥
क्षीरं घटे चित्रककल्कलिप्ते दध्यागतं साधु विमथ्य तेन ॥
तज्जं घृतं चित्रकमूलगर्भं तक्रेण सिद्धं श्वयथुघ्नमग्त्यम् ॥
अर्शोतिसारानिलगुल्ममेहांस्तद्धन्ति संवर्धयते च वह्निम् ॥ २४ ॥
माणकक्वाथकल्काभ्यां घृतप्रस्थं विपाचयेत् ॥
एकजं द्वंद्वजं शोथं त्रिदोषं च व्यपोहति ॥ २५ ॥
320
शैलेयकुष्ठागुरुदारुकौन्तीत्वक्पद्मकैलाम्बुपलाशमुस्तैः ॥
प्रियंगुथौणेयकहेममांसीतालीसपत्रप्लवधान्यपत्रैः ॥ २६ ॥
श्रीवेष्टकध्यामकपिप्पलीभिः स्पृक्कानखैश्चापि यथोपलाभम् ॥
वातात्मकेऽभ्यङ्गमुशन्ति तैलं सिद्धं सुपिष्टैरपि च प्रदेहम् ॥ २७ ॥
शुष्कमूलकवर्षाभूदारुरास्नामहौषधैः ॥
पक्वमभ्यञ्जनात्तैलं समूलं शोथनाशनम् ॥ २८ ॥
द्विपञ्चमूलस्य पचेत्कषाये कंसेऽभयानां च शतं गुडाच्च ॥
लेहे सुसिद्धे च विनीय चूर्णं व्योषं त्रिसौगन्ध्यमुपस्थिते च ॥ २९ ॥
प्रस्थाधर्मात्रं मधुनः सुशीते किंचिच्च चूर्णादपि यावशूकात् ॥
एकाभयां प्राश्य ततश्च लेहाच्छुक्तिं निहन्ति श्वयथुं प्रवृद्धम् ॥ ३० ॥
श्वासज्वरारोचकमेहगुल्मान्प्लीहत्रिदोषोदरपाण्डुरोगान् ॥
कार्श्यामवातावसृगम्लपित्तवैवर्ण्यमूत्रानिलशुक्रदोषान् ॥ ३१ ॥
सांनिध्यान्मधुनो मानं व्योषादेर्मिलितस्य च ॥
किंचिच्च कर्षपर्यायः शुक्तिरर्धपलं मता ॥ ३२ ॥
दशमूलीहरीतक्यास्तु(तु)ल्या कंसहरीतकी ॥
मानं तेनात्र तत्रत्यं चरके प्राह जैज्जटः ॥ ३३ ॥
321
दशमूलकषायस्य कंसे पथ्याशतं पचेत् ॥
तुलां गुडाद्धनव्योषयवक्षारचतुष्पलम् ॥ ३४ ॥
त्रिजातकं सुवर्णांशं प्रस्थार्धं मधुनो हिमे ॥ ३५ ॥
दशमूलहरीतक्यः शोथान्हन्युः सुदुर्जयान् ॥
ज्वरारोचकमेहार्शःकुष्ठपाण्डूदरामयान् ॥ ३६ ॥
पुनर्नवामृतादारुदशमूलजलाढके ॥
आर्द्रकस्वरसप्रस्थे गुडस्य तु तुलां पचेत् ॥ ३७ ॥
तत्सिद्धं व्योषपत्रैलात्वक्चव्यैः कार्षिकैः पृथक् ॥
चूर्णीकृतैः क्षिपेच्छीते मधुनः कुडवं लिहेत् ॥ ३८ ॥
लेहः पौनर्नवो नाम शोथशूलनिषूदनः ॥
कासश्वासारुचिहरो बलवर्णाग्निवर्धनः ॥ ३९ ॥
पिष्टान्नमम्लं लवणानि मद्यं मृदं दिवा स्वप्नमजाङ्गलं च ॥
स्त्रियो घृतं तैलपयोगुरूणि शोफं जिघांसुः परिवर्जयेच्च ॥ ४० ॥
ग्राम्याजानूपपिशितलवणं शुष्कशाकं नवान्नं
गौडं पिष्टान्नं दधि च कृशरं विज्जलं मद्यमम्लम् ॥
धानावल्लूरं समशनमथो गुर्वसात्म्यं विदाहि
स्वप्नं चारात्रौ श्वयथुगदवान्वर्जयेन्मैथुनं च ॥ ४१ ॥