324
तैलमेरण्डजं पीत्वा बलासिद्धं पयोन्वितम् ॥
आध्मानशूलोपचितामन्त्रवृद्धिं जयेन्नरः ॥ १२ ॥
हरीतकीं मूत्रसिद्धां सतैलां लवणान्विताम् ॥
प्रातः प्रातश्च सेवेत कफवातामयापहाम् ॥ १३ ॥
गोमूत्रसिद्धां रुबुतैलभृष्टां हरीतकीं सैन्धवचूर्णयुक्ताम् ॥
खादेन्नरः कोष्णजलानुपानान्निहन्ति वृद्धिं चिरजां प्रवृद्धाम् ॥ १४ ॥
त्रिफलाक्वाथगोमूत्रं पिबेत्प्रातरतन्द्रितः ॥
कफवातोत्थितं हन्ति श्वयथुं वृषणोद्भवम् ॥ १५ ॥
सरलागुरुकुष्ठानि देवदारु महौषधम् ॥
मूत्रारनालसंपिष्टं शोफघ्नं कफवातजित् ॥ १६ ॥
भृष्टो रुबूकतैलेन कल्कः पथ्यासमुद्भवः ॥
कृष्णासैन्धवसंयुक्तो वृद्धिरोगहरः परः ॥ १७ ॥
गव्यं घृतं सैन्धवसंप्रयुक्तं शम्बूकभाण्डे निहितं प्रयत्नात् ॥
सप्ताहमादित्यकरैर्विपक्वं निहन्ति कौरण्डमतिप्रवृद्धम् ॥ १८ ॥
वचासर्षपकल्केन प्रलेपः शोथनाशनः ॥ १९ ॥