322
गुग्गुलुं रुबुतैलं वा गोमूत्रेण पिबेन्नरः ॥
वातवृद्धिं निहन्त्याशु चिरकालानुबन्धिनीम् ॥ १ ॥
सक्षीरं वा पिबेत्तैलं मासमेरण्डसंभवम् ॥
तैलं नारायणं योज्यं पानाभ्यञ्जनबस्तिषु ॥ २ ॥
चन्दनं मधुकं पद्ममुशीरं नीलमुत्पलम् ॥
क्षीरपिष्टैः प्रदेहः स्याद्दाहशोथरुजापहः ॥ ३ ॥
पञ्चवल्कलकल्केन सघृतेन प्रलेपनम् ॥
सर्वं पित्तहरं कार्यं रक्तजे रक्तमोक्षणम् ॥ ४ ॥
श्लेष्मवृद्धिं तूष्णवीर्यैर्मूत्रपिष्टैः प्रलेपयेत् ॥
पीतदारुकषायं च पिबेन्मूत्रेण संयुतम् ॥ ५ ॥
स्विन्नं मेदःसमुत्थं तु लेपयेत्सुरसादिना ॥
शिरोविरेकद्रव्यैर्वा सुखोष्णैर्मूत्रसंयुतैः ॥ ६ ॥