327
महिषीमूत्रविमिश्रं लोहमलं संस्थितं घटे मासम् ॥
अन्तर्धूमविदग्धं लिह्यान्मधुनाऽथ गलगण्डे ॥ ८ ॥
सूर्यावर्तरसोनाभ्यां गलगण्डोपनाहनम् ॥
स्फोटास्रावैः शमं याति गलगण्डो न संशयः ॥ ९ ॥
तैलं पिबेच्चामृतवल्लिनिम्बहंसाह्वयावृक्षकपिप्पलीभिः ॥
सिद्धं बलाभ्यां च सदेवदारु हिताय नित्यं गलगण्डरोगे ॥ १० ॥
जिह्वायाः पार्श्वतोऽधस्ताच्छिरा द्वादश कीर्तिताः ॥ ११ ॥
तासां स्थूलशिरे कृष्णे छिन्द्यात्ते च शनैः शनैः ॥
बडिशेनैव संगृह्य कुशपत्रेण बुद्धिमान् ॥ १२ ॥
स्रुते रक्ते व्रणे तस्मिन्दद्यात्सगुडमार्द्रकम् ॥
भोजनं चानभिष्यन्दि यूषः कौलत्थ इष्यते ॥ १३ ॥
कर्णयुग्मबहिःसंधिमध्याभ्यासे स्थितं च यत् ॥
उपर्युपरि तच्छिन्द्याद्गलगण्डे शिरात्रयम् ॥ १४ ॥
विडङ्गक्षारसिन्धूग्रारास्नाग्निव्योषदारुभिः ॥
कटुतुम्बीफलरसे कटुतैलं विपाचितम् ॥
चिरोत्थमपि नस्येन गलगण्डं विनाशयेत् ॥ १५ ॥
विडङ्गानलसिन्धूत्थरास्नोग्राक्षारदारुभिः ॥ १६ ॥
तैलं चतुर्गुणे सिद्धं कटुतुम्बीरसेऽथ तत् ॥
गण्डमालाहरं श्रेष्ठं गलगण्डहरं परम् ॥ १७ ॥