326
यवमुद्गपटोलादि कटुरूक्षं च भोजनम् ॥
छर्दि सरक्तमुक्तिं च गलगण्डे प्रयोजयेत् ॥ १ ॥
निचुलं शिग्रुबीजानि दशमूलमथापि वा ॥
आलेपनं वातगण्डे सुखोष्णं संप्रशस्यते ॥ २ ॥
देवदारुविशाले च कफगण्डे प्रलेपनम् ॥
तण्डुलोदकपिष्टेन मूलेन परिलेपितः ॥
हस्तिकर्णपलाशस्य गलगण्डः प्रशाम्यति ॥ ३ ॥
सर्षपाञ्शिग्रुबीजानि शणबीजातसीयवान् ॥
मूलकस्य च बीजानि तक्रेणाम्लेन पेषयेत् ॥ ४ ॥
गण्डानि ग्रन्थयश्चैव गण्डमालाः समुत्थिताः ॥
प्रलेपात्तेन शाम्यन्ति विलयं यान्ति वाऽचिरात् ॥ ५ ॥
जीर्णकर्कारुकरसं बिडसैन्धवसंयुतम् ॥
नस्येन हन्ति तरुणं गलगण्डं न संशयः ॥ ६ ॥
जलकुम्भीकजं भस्म पक्वं गोमूत्रगालितम् ॥
पिबेत्कोद्रवतक्राशी गलगण्डोपशान्तये ॥ ७ ॥