359
सव्रणस्य तु भग्नस्य व्रणं सर्पिर्मधूत्तरैः ॥
प्रतिसार्य कषायैश्च शेषं भग्नवदाचरेत् ॥ १३ ॥
वातव्याधिविनिर्दिष्टान्स्नेहानत्रापि योजयेत् ॥ १४ ॥
लवणं कटुकं क्षारमम्लं मैथुनमातपम् ॥
व्यायामं च न सेवेत भग्नो रूक्षान्नमेव च ॥ १५ ॥

Adhikāra 47

नाडीनां गतिमन्विष्य शस्त्रेणाऽऽपाट्य कर्मवित् ॥
सर्वं व्रणक्रमं कुर्याच्छोधनं रोपणादिकम् ॥ १ ॥
नाडीं वातकृतां साधु पाटितां लेपयेद्भिषक् ॥
प्रत्यक्पुष्पीफलयुतैस्तिलैः पिष्टैः प्रलेपयेत् ॥ २ ॥
पैत्तिकीं तिलमञ्जिष्ठानागदन्तीनिशाद्वयैः ॥
श्लैष्मिकीं तिलयष्ट्याह्वनिकुम्भारिष्टसैन्धवैः ॥ ३ ॥