1
श्रीमद्भट्टाकलङ्कदेवविरचित-सिद्धिविनिश्चयस्य

रविभद्रपादोपजीवि-अनन्तवीर्याचार्यविनिर्मिता

सिद्धिविनिश्चयटीका

आलोकाख्यटिप्पणसहिता

१ प्रत्यक्षसिद्धिः


॥ ओँ नमोऽर्हते ॥


अ क ल ङ्कं जिनं भक्त्या गुरुं देवीं सरस्वतीम् ।

नत्वा टीकां प्रवक्ष्यामि शुद्धां सि द्धि वि नि श्च ये ॥ १ ॥

अ क ल ङ्क वचः काले कलौ न क1लयापि यत् ।

नृषु लभ्यं क्वचिल्लब्ध्वा तत्रैवास्तु मतिर्मम ॥ २ ॥

दे व स्याऽ न2 न्त वी र्यो ऽपि प3दं व्य4क्तं तु सर्वतः ।

न जानीते ऽक ल ङ्क स्य चित्रमेतत् परं भुवि ॥ ३ ॥

अ क ल ङ्क वचोऽम्भोधेः सूक्तरत्नानि यद्यपि ।

गृह्यन्ते बहुभिः सैर5 सद्रत्नाकर एव सः ॥ ४ ॥

सर्वधर्मस्यनैरात्म्यं कथयन्नपि सर्वथा ।

6 र्म की र्तिः पदं गच्छेदाकलङ्कं कथं ननु ॥ ५ ॥

शास्त्रस्यादौ तदविघ्नप्रसिद्धिप्रथनादिकं फलमभिसमीक्ष्य सर्वज्ञम् इत्यादि मङ्गलमाह7--


सर्वज्ञं सर्वतत्त्वार्थस्याद्वादन्यायदेशिनम् ।

श्रीवर्धमानमभ्यर्च्य वक्ष्ये सि द्धि वि नि श्च य म् ॥ १ ॥

अस्यायमर्थः--सर्वज्ञम् सर्ववेदिनम्, अभ्यर्च्य अर्चित्वा । न8नु प्रतिभासाद्वैता
दन्यस्याभावात् त9देव सर्वम्, तज्जानातीति सर्वज्ञः स्वरूपज्ञः, तमभ्यर्च्य इति प्राप्तम्
इति चेत्;
अत्राह--श्रीवर्धमानम् इति । श्रीः अशेषतत्त्वार्थज्ञानादिसम्पद् इह गृह्यते, सा पू10र्वापूर्वपर्याय
11परित्यागाऽजहद्वृत्त्युत्तरपर्यायोपादानेन वर्धमाना उपरमविरहेण प्रवर्त्तमाना यस्य स

अकलङ्कं नमस्कृत्य तुलनार्थावबोधकम् ।

आलोकाख्यमहं वक्ष्ये महेन्द्रष्टिप्पणं सुधीः ॥ १ ॥

  1. लेशेन ।

  2. अनन्तशक्तियुक्तोऽपि, पक्षे ग्रन्थकारः ।

  3. वाक्यम् ।

  4. स्पष्टम् ।

  5. स्वैरं
  6. बौद्धाचार्यः ।

  7. अकलङ्कदेवः ।

  8. प्रतिभासाद्वैतवादी प्रज्ञाकरः प्राह ।

  9. प्रतिभासाद्वैतमेव ।
    परमार्थतः तदद्वैतावबोधादेव प्रमाणं भगवानपि न सर्वार्थपरिज्ञानतः । सर्वार्थपरिज्ञानं तु लोक
    व्यवहारेण सांवृतमेव । तथा चोक्तम्--अद्वयं यानमुत्तमम् ।
    --प्र॰ वार्तिकाल॰ २ । ७ ।

  10. तुलना—
    पूर्वाकारपरित्यागाऽजहद्वृत्तोत्तराकारान्वयप्रत्ययविषयस्योपादानत्वप्रतीतेः ।--अष्टस॰ पृ॰ ६५ ।
    परापरस्वभावपरिहारावाप्तिस्थितिलक्षणोऽर्थः--प्रमाणसं॰ पृ॰ १२३ ।

  11. पूर्वपर्याय