206 तथा ह्ययंशब्दो न पृथिव्यादीनां चतुर्णां गुणो युक्तः, प्रत्यक्षत्वे सत्यकारणगुणपू
र्वकत्वात्, अयावद्द्रव्यभावित्वात्, आश्रयादन्यत्रोपलब्धेश्च । यथोक्तधर्मविपरीता
हि स्पर्शवतां गुणा दृष्टाः । प्रत्यक्षत्वे सतीति विशेषणं पाकजैः परमाणुगतैरनेकान्त
त्वपरिहारार्थम् । बाह्येन्द्रियप्रत्यक्षत्वादात्मान्तरग्राह्यत्वादहङ्कारेण विभक्तग्रहणाच्च ना
त्मनो गुणः । आत्मगुणानां हि सुखादीनामेतद्वैपरीत्यदर्शनात् । श्रोत्रग्राह्यत्वाच्च न
दिक्कालमनसाम् । अतः पारिशेष्याद्गुणो भूत्वाऽऽकाशस्य लिङ्गम् । तच्चाकाशं शब्द
लिङ्गाविशेषाद्विशेषलिङ्गाभावादेकं सर्वत्रोपलभ्यमानगुणत्वात्—विभुगुणवत्त्वात् ।
अनाश्रितत्वाच्च द्रव्यम् । अकृतकत्वान्नित्यमित्येषा प्रक्रिया परेषाम् ॥ ६२२ ॥


आदित्यादीत्यादिना कालसाधनमाह—


आदित्यादिक्रियाद्रव्यव्यतिरेकनिबन्धनम् ।

परापरादिविज्ञानं घटादिप्रत्ययो यथा ॥ ६२३ ॥

वलीपलितकार्कश्यगत्यादिप्रत्ययादिदम् ।

यतो विलक्षणं हेतुः स च कालः किलेष्यते ॥ ६२४ ॥

द्रव्यशब्देन वलीपलितादयो ग्रहीतव्याः । परः पिता, अपरः पुत्रः, युगपत्,
चिरं, क्षिप्रं, क्रियते, कृतं, करिष्यते चेति यदेतत्परापरादिज्ञानं तदादित्यादिक्रिया
द्रव्यव्यतिरिक्तपदार्थनिबन्धनम्, वलीपलितादिप्रत्ययविलक्षणत्वात्, घटादिप्रत्यय
वत् । यो हेतुरस्य स सामर्थ्यात्कालः । तथाहि—न तावद्देशकृतोऽयं परापरादिप्र
त्ययः । परदिग्भागावस्थितेऽपि स्थविरे पर इति ज्ञानोत्पत्तेः । तथाऽपरदिग्भागाव
स्थायिन्यपि पुत्रेऽपर इति । नापि वलीपलितादिकृतः, तत्प्रत्ययविलक्षणत्वात् ।
नापि क्रियाकृतः, तज्ज्ञानविलक्षणत्वादेव । तथाच सूत्रम्—अपरं परं युगपदयुगप
च्चिरं क्षिप्रमिति काललिङ्गानीति । नित्यत्वैकत्वादयो धर्मा आकाशवदेवास्य बोद्धव्याः
॥ ६२३ ॥ ६२४ ॥


दिक्प्रसाधनार्थमाह—पूर्वापरादिबुद्धिभ्य इति ।


पूर्वापरादिबुद्धिभ्यो दिगेवमनुमीयते ।

क्रमेण ज्ञानजात्या च मनसोऽनुमितिर्मता ॥ ६२५ ॥

चक्षुरादिविभिन्नं च कारणं समपेक्षते ।

क्रमेण जाता रूपादिप्रतिपत्ती रथादिवत् ॥ ६२६ ॥