आदित्यादीत्यादिना कालसाधनमाह—


आदित्यादिक्रियाद्रव्यव्यतिरेकनिबन्धनम् ।

परापरादिविज्ञानं घटादिप्रत्ययो यथा ॥ ६२३ ॥

वलीपलितकार्कश्यगत्यादिप्रत्ययादिदम् ।

यतो विलक्षणं हेतुः स च कालः किलेष्यते ॥ ६२४ ॥

द्रव्यशब्देन वलीपलितादयो ग्रहीतव्याः । परः पिता, अपरः पुत्रः, युगपत्,
चिरं, क्षिप्रं, क्रियते, कृतं, करिष्यते चेति यदेतत्परापरादिज्ञानं तदादित्यादिक्रिया
द्रव्यव्यतिरिक्तपदार्थनिबन्धनम्, वलीपलितादिप्रत्ययविलक्षणत्वात्, घटादिप्रत्यय
वत् । यो हेतुरस्य स सामर्थ्यात्कालः । तथाहि—न तावद्देशकृतोऽयं परापरादिप्र
त्ययः । परदिग्भागावस्थितेऽपि स्थविरे पर इति ज्ञानोत्पत्तेः । तथाऽपरदिग्भागाव
स्थायिन्यपि पुत्रेऽपर इति । नापि वलीपलितादिकृतः, तत्प्रत्ययविलक्षणत्वात् ।
नापि क्रियाकृतः, तज्ज्ञानविलक्षणत्वादेव । तथाच सूत्रम्—अपरं परं युगपदयुगप
च्चिरं क्षिप्रमिति काललिङ्गानीति । नित्यत्वैकत्वादयो धर्मा आकाशवदेवास्य बोद्धव्याः
॥ ६२३ ॥ ६२४ ॥