दिक्प्रसाधनार्थमाह—पूर्वापरादिबुद्धिभ्य इति ।


पूर्वापरादिबुद्धिभ्यो दिगेवमनुमीयते ।

क्रमेण ज्ञानजात्या च मनसोऽनुमितिर्मता ॥ ६२५ ॥

चक्षुरादिविभिन्नं च कारणं समपेक्षते ।

क्रमेण जाता रूपादिप्रतिपत्ती रथादिवत् ॥ ६२६ ॥

207

मूर्त्तं द्रव्यमवधिं कृत्वा मूर्त्तेष्वेव द्रव्येषु तस्मादिदं पूर्वेण, दक्षिणेन, पश्चिमेन
उत्तरेण, पूर्वदक्षिणेन, दक्षिणापरेण, अपरोत्तरेण, उत्तरपूर्वेण, अधस्तादुपरिष्टादिति
दश प्रत्यया अमी यतो भवन्ति सा दिगिति । तथाच सूत्रं—इत इदमिति यतस्त
द्दिशो लिङ्गमिति । यत एते विशेषप्रत्ययाः, नच विशेषप्रत्यया आकस्मिका युक्ताः,
नच परस्परं मूर्त्तद्रव्यव्यपेक्षा, इतरेतराश्रयत्वेनोभयाभावप्रसङ्गात्, तस्मादन्यनि
मित्तासम्भवाद्दिश एतानि लिङ्गानि तस्याश्च दिशः कालवदेकत्वविभुत्वादयो गुणा बो
द्धव्याः । एकत्वेऽपि दिशः कार्यविशेषात्प्राच्यादिभेदेन नानात्वम् । प्रयोगः—यदे
तत्पूर्वापरादिज्ञानं तन्मूर्त्तद्रव्य(भिन्न ?)पदार्थनिबन्धनम्, तत्प्रत्ययविलक्षणत्वात्सु
खादिज्ञानवदिति । मनसो लिङ्गमाह—क्रमेणेत्यादि । युगपदनेकेन्द्रियार्थसन्निकर्ष
सान्निध्येऽपि क्रमेण ज्ञानोत्पत्तिदर्शनादस्तीन्द्रियार्थव्यतिरिक्तं कारणान्तरं यस्य स
न्निधानासन्निधानाभ्यां ज्ञानस्योत्पत्त्यनुत्पत्ती भवत इति । तस्मात्क्रमेण ज्ञानजात्या—
ज्ञानोत्पत्त्या, मनसोऽनुमितिः क्रियते । तथाच सूत्रम्—युगपज्ज्ञानानुत्पत्तिर्मनसो
लिङ्गमिति । प्रयोगः—येयं रूपादिप्रतिपत्तिः सा चक्षुरादिव्यतिरिक्तकारणापे
क्षिणी, क्रमेण जायमानत्वात्, रथादिवदिति ॥ ६२५ ॥ ६२६ ॥