उपात्तादीत्यादिना प्रतिविधत्ते ।


उपात्तादिमहाभूतहेतुत्वाङ्गीकृतेर्ध्वनेः ।

सिद्धा एवाश्रिताः शब्दास्तेष्वित्याद्यमसाधनम् ॥ ६२७ ॥

यदि सामान्येनाश्रितत्वमात्रमेषां साध्यते शब्दानां तदा सिद्धसाध्यता
हेतोः । तथाहि—शब्दा उपात्तानुपात्तमहाभूतहेतुका इष्यन्ते । तेषु च भूतेषु तत्का
र्यतया समाश्रिता एव । तत्प्रतिबद्धात्मलाभतया कार्याणां कारणाश्रितत्वात् । उपा
त्तानि—चित्तचैत्तैः स्वीकृतानि । आदिशब्देनानुपात्तमहाभूतहेतुकत्वपरिग्रहः । ते
ष्वि
ति । उपात्तादिमहाभूतेषु । इतीति । तस्मादित्यर्थः । आद्यमिति । समाश्रिताः
क्वचिच्छब्दा
इत्यादिना यदुक्तं तदसाधनं सिद्धसाध्यतादोषादिति भावः ॥ ६२७ ॥