नाप्यक्षणिकस्येति दर्शयति—स्थैर्ये त्वित्यादि ।


स्थैर्ये तु वस्तुनः सर्वे दुर्घटा गमनादयः ।

सुतरामेव सर्वासु दशास्वस्याविशेषतः ॥ ६९८ ॥

एकरूपं हि सदा वस्त्वक्षणिकमुच्यते, तस्य सुतरामेव क्रियासमावेशो न संभवति,
आकाशवत्सर्वदा निर्विशिष्टत्वात् । प्रयोगः—यत्सर्वदा निर्विशिष्टं न तस्य क्रिया
संभवति, यथाऽऽकाशस्य, निर्विशिष्टं चाक्षणिकभिमतं सर्वदा वस्त्विति व्यापकविरु
द्धोपलब्धिः ॥ ६९८ ॥