स्यादेतद्यदि नामाविशिष्टमक्षणिकं वस्तु, तथापि प्रकृत्यैव तस्य गन्त्रादिरूपत्वा
त्क्रियावत्त्वं भविष्यतीत्यतोऽनैकान्तिकता हेतोरित्याशङ्क्याह—यदीत्यादि ।


यदि गन्त्रादिरूपं तत्प्रकृत्या गमनादयः ।

सदा स्युः क्षणमप्येवं नावतिष्ठेत निश्चलम् ॥ ६९९ ॥

यस्माद्गत्याद्यसत्त्वेऽपि प्राप्नुवन्त्यस्य चे ध्रुवम् ।

अत्यक्तपूर्वरूत्वाद्गत्याद्युदयकालवत् ॥ ७०० ॥

यदि ह्यमी देवदत्तादयः क्षणिकत्वेनाभिमताः प्रकृत्या गमनोत्क्षेपणादियोगिनस्तदा
234 न कदाचिदपि निश्चलमवतिष्ठेरन्, सर्वदा गन्त्रादिरूपत्वात् । ततश्चास्य देवदत्तादेर्ग
त्यादिमतो गत्याद्यसत्त्वेऽपि—निश्चलावस्थायामपि, ते—गमनादयः, प्राप्नुवन्ति । ग
त्याद्युत्पत्तिकाल इवात्यक्तपूर्वरूपत्वात् ॥ ६९९ ॥ ७०० ॥