यच्चोक्त मिहबुद्ध्यविशेषा दित्यादि, तत्राह—यद्येक इत्यादि ।


यद्येकः समवायः स्यात्सर्वेष्वेव च वस्तुषु ।

कपालादिष्वपि ज्ञानं पटादीति प्रसज्यते ॥ ८३५ ॥

गजादिष्वपि गोत्वादि समस्तीत्यनुषज्यते ।

ततो गवादिरूपत्वममीषां शावलेयवत् ॥ ८३६ ॥

पटस्तन्तुषु योऽस्तीति समवायात्प्रतीयते ।

अस्ति चासौ कपालेषु तस्येति न तथेति किम् ॥ ८३७ ॥

नाश्रितः स कपाले चेन्ननु तन्तुष्वपीष्यते ।

आश्रितः समवायेन स कपालेऽपि नास्ति किम् ॥ ८३८ ॥

तन्तोर्यः समवायो हि पटस्येत्यभिधीयते ।

स घटस्य कपालेषु तद्धीरनवधिर्भवेत् ॥ ८३९ ॥

यद्येकस्त्रैलोक्ये समवायः स्यात्तदा कपालेषु (पट) इत्यादयोऽपि धियः प्रसूयेरन् ।
अश्वादिषु च गोत्वादिर्विद्यत इत्येवं स्यात् । ततश्च सावलेयादिभेदवद्गजादिष्वपि
गवादिप्रत्ययो भवेत् । तथाहि—तन्तुषु पट इति यत्समवायबलात्प्रतीतिरुपवर्णिता स
समवायस्तस्य पटस्य कपालादिष्वप्यस्तीति किमिति तथा प्रतीतिर्न भवेत् । स्यादेतत्
न कपाले पट आश्रितस्तेन तथा प्रत्ययो न भवतीति । एतदपि मिथ्या । यतस्तन्तु
ष्वपि पट आश्रित इति यत्समवायबलादुपवर्ण्यते, स समवायः कपालेषु किं नास्ति,
येन तत्र तन्तुष्विव पटोऽस्तीति तद्बुद्धिर्न भवेत् । किन्तु य एव तन्तौ पटस्य सम
वाय इति निर्दिश्यते स एव पटस्य समवायः कपालेषु, तत्कथं सङ्करो न स्यात् ।
तत्—तस्मात्, धीरनवधिः—अवधिरहिता भवेत् । ततश्च द्रव्यगुणकर्मणां द्रव्य
त्वगुणत्वकर्मत्वादिविशेषणैः सम्बन्धस्यैकत्वात् । पञ्चपदार्थविभागो न स्यात् ॥ ८३५ ॥
॥ ८३६ ॥ ८३७ ॥ ८३८ ॥ ८३९ ॥


269

एवमित्यादिना गजादिषु गवादिबुद्धिप्रसङ्गं समर्थयते ।