269

एवमित्यादिना गजादिषु गवादिबुद्धिप्रसङ्गं समर्थयते ।


एवं यश्च गजत्वादिसमवायो गजादिषु ।

गोत्वादिजातिभेदानां स एव स्वाश्रयेष्वपि ॥ ८४० ॥

आधारेत्यादिनाऽत्र प्रशस्तमतेरूत्तरमाशङ्कते ।


आधाराधेयनियमः स चैकत्वेऽपि विद्यते ।

द्रव्येष्विव हि तज्जातिकर्मस्वेव च कर्मता ॥ ८४१ ॥

स ह्याह—यद्यप्येकः समवायस्तथापि पञ्चपदार्थसङ्करो न भवति, आधाराधेय
नियमात् । तथाहि—द्रव्येष्वेव द्रव्यत्वं, गुणेष्वेव गुणत्वं, कर्मस्वेव कर्मत्वम्, इत्येवं
द्रव्यत्वादीनां प्रतीनियताधारावच्छेदेन प्रतिपत्तिरुपजायते ॥ ८४१ ॥


यद्येवं तर्हि समवायः प्रतिपदार्थं भिन्नः प्राप्नोतीत्याह—इहेत्यादि ।


इहेति समवायोत्थविज्ञानान्वयर्शनात् ।

सर्वत्र समवायोऽयमेक एवेति गम्यते ॥ ८४२ ॥

द्रव्यत्वादिनिमित्तानां व्यतिरेकस्य दर्शनात् ।

धियां द्रव्यादिजातीनां नियमस्त्ववसीयते ॥ ८४३ ॥

इहेति समवायनिमित्तस्य प्रत्ययस्य सर्वत्राभिन्नाकारतयाऽन्वयदर्शनात्सर्वत्रैकः
समवाय इति गम्यते । सत्यपि चैकत्वे द्रव्यत्वादिनिमित्तानां धियां प्रतिनियताधारा
वच्छेदेनोत्पत्तेः व्यतिरेकस्यानन्वयलक्षणस्य दर्शनाद्द्रव्यत्वादिजातीनां व्यतिरेको
विज्ञायते । तेन पञ्चपदार्थसङ्करो न भवति ॥ ८४२ ॥ ८४३ ॥


कथं पुनः सम्बन्धाविशेषेऽप्यमीषामाधाराधेयप्रतिनियमो युज्यत इत्याह—तद्य
थे
त्यादि ।


तद्यथा कुण्डदध्नोश्च संयोगैक्येऽपि दृश्यते ।

आधाराधेयनियमस्तथेह नियमो मतः ॥ ८४४ ॥

व्यङ्ग्यव्यञ्जकसामर्थ्यभेदाद्द्रव्यादिजातिषु ।

समवायैकभावेऽपि नैव चेत्स विरुध्यते ॥ ८४५ ॥

यथाहि कुण्डदध्नोः संयोगैकत्वेऽपि भवत्याश्रयाश्रयिप्रतिनियमः, तथा द्रव्यत्वा
दीनां समवायैकत्वेऽपि व्यङ्ग्यव्यञ्जकशक्तिभेदादाधाराधेयप्रतिनियम इति । स इत्या
धाराधेयनियमः ॥ ८४४ ॥ ८४५ ॥