005

ननुप्रयोजनविशेषार्थितैव पुंसः प्रयोजनविशेषसंशयोत्पत्तिहेतुः प्राग्विद्यत एव ।
तथाहि प्रयोजनविशेषाकाङ्क्षापरिगतमनसः प्रथमतरमेवं भवत्येव, किमिदमस्मदधि
गतप्रयोजनेन सप्रयोजनम् ? आहोस्विदन्येन ? किं वा निष्प्रयोजनमिति; तत्साधक
बाधकप्रमाणाभावे तस्य न्यायप्राप्तत्वात् । प्रयोजनविशेषप्रतिपादकशास्त्रान्तरोपल
ब्धेश्च । अतो भवत्येव प्रागपि प्रयोजनविशेषविषयसंशय इति व्यर्थः प्रयोजनवाक्यो
पन्यासः । नैतदस्ति । यद्यपि प्रयोजनविशेषार्थितापि संशयविशेषहेतुर्भवति । त
थापि न सा सर्वेषां संमुखीभवति । अव्युत्पन्नपुरुषार्थानां मूढधियां केषांचिदसंमु
खीभावात् । तथाहि—मोक्षः परमपुरुषार्थतया सिद्धः, अथ च सन्ति केचिदव्यु
त्पन्ना ये तमपि परमपुरुषार्थं पुरुषार्थतया न जानन्ति । प्राग्ये न तं प्रार्थयिष्यन्ते
ते । न वा संमुखीभूता प्रयोजनविशेषाकाङ्क्षा प्रयोजनविशेषविषयसन्देहोत्पत्तिहेतु
र्युक्ता, कारणसत्ताधीनत्वात्कार्याणाम् । यदि नाम सा केषांचिदपि संमुखीभवति,
तथाप्यसौ साधनान्तरपरित्यागेन प्रतिनियतसाधनोपादानहेतोः संशयविशेषस्य हेतुर्न
भवति; सर्वत्र साधकबाधकप्रमाणाभावेन तस्यास्तद्धेतुत्वेन न्यायप्राप्तत्वात् । न चै
तावन्मात्रेण प्रवृत्तिर्युक्ता । सर्वत्र प्रवृत्तिप्रसङ्गात् । न च शक्यं केनचित्सर्वत्र प्रवर्त्ति
तुमित्यतः फलविशेषार्थिनोऽपि प्रतिनियतसाधनपरिग्रहनिबन्धनाभावादुदासीरन् ।
तस्मात्प्रतिनियतसाधनपरिग्रहहेतुप्रयोजनविशेषविषयसंशयोत्पादनायात्यन्तपरोक्षार्थ
विषयागमप्रणयनवत् फलविशेषार्थिना प्रतिनियतसाधनपरिग्रहायाभिधानीयमेव प्रयो
जनवाक्यम् । तथा हि तेनास्यैव शास्त्रस्यार्थविशेष उपदर्श्यते नान्यस्य । अतोऽनेन
प्रतिनियतसाधनसाध्यफलविशेषविषयः संशयो जन्यते । स च श्रोता कदाचिन्म
मायमर्थविशेषो निष्पत्स्यत इति प्रयोजनवाक्योपजनितात् प्रयोजनविशेषविषयादत्य
न्तपरोक्षार्थविषयागमोपजनितादिव संशयात्प्रवर्त्तेतापीत्यतः प्रयोजनवाक्योपन्यासः ॥


अवश्यं चैतदेवं विज्ञेयम्, अन्यथाऽत्यन्तपरोक्षार्थविषयागमप्रणयनमपि व्यर्थं
स्यात्; प्रागप्यागमप्रणयनाद्दानादिषु फलविशेषार्थिनां साधकबाधकप्रमाणाभावेन त
त्संशयस्य विद्यमानत्वात् । किं त्वसावव्युत्पन्नस्वर्गादिफलानां नैवोत्पद्यते । तत्कार
णभूतायाः फलविशेषार्थिताया असंमुखीभावात् । येषां चोपजायते तेषामपि सर्व
त्रोपलादिभक्षणेऽपि प्रवृत्तिहेतुतया साधारणत्वादुपलादिभक्षणपरिहारेण (न) प्रति
नियतदानादिपरिग्रहहेतुर्भवतीति मत्वा तदर्थमागमप्रणेतृभिरागमः प्रणीयते तद्वत्प्रयो