006 जनवाक्यमपि शास्त्रकारैरित्यचोद्यमेतत् । न चापि जिज्ञासितप्रयोजनविशेषप्रतिपादकं
शास्त्रान्तरमुपलब्धम्, येन तदुपलब्धिबलादभिमतप्रयोजनविशेषविषयः सन्देहो भ
वेत् । न ह्यभिमतप्रयोजनविशेषसाधने शास्त्रान्तरे सम्भवति कश्चित्प्रेक्षावान् परं शा
स्त्रान्तरमारभते । प्रेक्षावत्त्वहानिप्रसङ्गात् । अतो न शास्त्रान्तरोपलब्धिरपि विवक्षि
तप्रयोजनविशेषसन्देहहेतुर्भवति । तस्माच्छ्रोतृजनप्रवृत्त्यर्थः प्रयोजनादिवाक्योपन्यास
इति स्थितम् ॥


यस्तु मन्यते न श्रोतृजनप्रवृत्त्यर्थं प्रयोजनादिकथनम्, ततः संशयोत्पत्तेः; सं
शयेन तु प्रेक्षावतः प्रवृत्त्यसम्भवात् । किंतु यत्प्रयोजनरहितमनर्थकं वा तन्नारब्ध
व्यम्, यथा काकदन्तपरीक्षोन्मत्तादिवाक्यम्; प्रयोजनरहितं चेदं शास्त्रमतो न श्रोतुं
कर्त्तुं वा प्रारब्धव्यमित्येवं व्यापकानुपलब्ध्या यः प्रत्यवतिष्ठते तस्य हेतोरसिद्धतोद्भा
वनार्थमादौ प्रयोजनादिवाक्योपन्यास इति । तदसम्यगिव लक्ष्यते । संशयेनापि
प्रवृत्तेः प्रसाधितत्वात् । असिद्धतोद्भावनस्य च वैयर्थ्यात् । एवं हि तदर्थवद्भवेत् ।
यदि तस्य परस्यातो वाक्यात्प्रवृत्तिर्भवेत् । यावतोद्भावितायामप्यनेन वाक्येनासिद्ध
तायां नातो वाक्यात्प्रेक्षावतो यथोक्तव्यापकात्तत्वनिश्चयः समुत्पद्यते येनासौ प्रव
र्त्तितो भवेत् । पूर्ववद्वाक्यस्यास्याप्रमाणत्वात् । संशयेन च प्रेक्षापूर्वकारिणो भवन्म
तेन प्रवृत्त्यसम्भवात् । अतो विफलमेवासिद्धतोद्भावनम् । नापि कश्चित्प्रेक्षावानवि
दितशास्त्रशरीरोऽकस्माद्व्यापकाभावं निश्चित्यानेन प्रत्यवतिष्ठते । नापि तत्प्रत्यवस्था
नात् स्वयं विदितशास्त्रप्रयोजनोऽपि शास्त्रकृन्नारभेत कर्तुं श्रोता वा प्रेक्षापूर्वकारी
निर्निबन्धनाद्वाक्यान्निवर्त्तते येन तयोः प्रवृत्त्यर्थमसिद्धतोद्भावनं स्यात् । अथापि
स्याद्योऽप्रेक्षापूर्वकारी सोऽनिबन्धनमकस्मादपि यथोक्तव्यापकाभावं गृह्णीयात् । परैश्च
ग्राहयेदपि, अतस्तं प्रत्यसिद्धतोद्भावनं क्रियत इत्येतदप्ययुक्तम् ॥


यदि तत्तेषां प्रवृत्त्यङ्गं शास्त्रेषु न भवति, तदा विफलमेव तं प्रत्यसिद्धतोद्भाव
नम्; अन्यथा ह्यतिप्रसङ्गः स्यात् । सन्ति हि बहुतरा असम्बद्धप्रलापिनः केचित्,
तेषामप्ययुक्ताभिधायित्वप्रतिपादनाय बहुतरं शास्त्रप्रवृत्तावनुपयुज्यमानकमपि वक्तव्य
मापद्येत । तस्मादवश्यमेव हेत्वसिद्धतोद्भावनं शास्त्रारम्भे माभूद्विफलमतिप्रसङ्गो
वेति श्रोतृजनप्रवृत्तिफलमेव वर्णनीयम् । ततश्च योऽपि व्यापकानुपलब्ध्या न प्रत्यव
तिष्ठेत न चाश्रुत्वा प्रयोजनं प्रवर्त्तेत तं प्रत्यपि सार्थकमेव किं न भवेत् । यथा वि