427 न शक्यते निश्चयः कर्तुम् । इत्येवमादि । अवस्थादेशकालानामिति भेदादित्येत
दपेक्ष्य षष्ठी । भावानामिति प्रसिद्ध्यपेक्षया । तथा तृणादिषु निश्चितदहनसामर्थ्य
स्याग्नेरभ्रपटले तत्सामर्थ्यं प्रतिहन्यते, न च तत्रैवमनुमातुं शक्यते—अभ्रपटलम
ग्निना दह्यते पार्थिवत्वात्तृणादिवदिति । तथाऽन्येनान्यथा प्रतिपादितोऽर्थः पुनरभि
युक्ततरेणान्येनान्यथा प्रतिपाद्यत इत्यनिष्टा ॥ १४६० ॥ १४६१ ॥ १४६२ ॥


परार्थमनुमानं तु न मानं वक्रपेक्षया ।

अनुवादान्न तेनासौ स्वयमर्थं प्रपद्यते ॥ १४६३ ॥

श्रोतृव्यपेक्षयाऽप्येतत्स्वार्थमेवोपपद्यते ।

श्रोत्रदर्शनमूलायाः को विशेषो हि संविदः ॥ १४६४ ॥

न परार्थानुमानत्वं वचसः श्रोत्रपेक्षया ।

श्रोतृसन्तानविज्ञानहेतुत्वज्ञापकत्वतः ॥ १४६५ ॥

यथेन्द्रियस्य साक्षाच्च नानुमेयप्रकाशनम् ।

तस्मादस्याविनाभावसम्बन्धज्ञानवन्न तत् ॥ १४६६ ॥

अथोच्यते परार्थत्वं परव्यावृत्त्यपेक्षया ।

तदप्ययुक्तं स्वार्थेपि परार्थत्वप्रसङ्गतः ॥ १४६७ ॥

अन्यः पुनराह—परार्थमनुमानं वक्रपेक्षयाऽनुवादत्वान्न प्रमाणम् । श्रोत्रपेक्षया
तु स्वार्थमेव, को हि विशेषः श्रोत्रद्वारेण तमर्थं प्रतिपद्यते दर्शनद्वारेण चेति । यथा
दर्शनेन्द्रियस्य व्यापारे सति परार्थव्यपदेशो न भवति, एवं श्रोत्रेन्द्रियव्यापारोऽपि
माभूदिति । दर्शनम्—चक्षुरिन्द्रियम् । दृश्यतेऽनेनेति कृत्वा । संविद इति । ज्ञा
नस्य । तथा न श्रोत्रपेक्षया वचनस्य परार्थानुमानत्वम्, श्रोतृसन्तानवर्त्तिज्ञानहेतु
त्वात्, ज्ञापकत्वाद्वा, इन्द्रियवदिति । श्रोतृसन्तानविज्ञानहेतुत्वं च ज्ञापकत्वं चेति
द्बन्द्वेन हेतुद्वयनिर्देशः । यथेन्द्रियस्येति दृष्टान्तनिर्देशः । अयमपरः प्रयोगः—न
परार्थानुमानत्वं वचनस्य श्रोत्रपेक्षया, साक्षादनुमेयाऽप्रकाशकत्वात्, अविनाभाव
सम्बन्धज्ञानवत् । तस्मादिति । साक्षादनुमेयाप्रकाशकत्वात् । यस्मात्साक्षादनुमे
याप्रकाशकत्वं तस्मान्न श्रोत्रपेक्षया वचसः प्रामाण्यमविनाभावसम्बन्धज्ञानवदिति
वाक्यार्थः । अविनाभावः साध्येन साधनस्य, स एव सम्बन्धः साध्येन यस्य लि
ङ्गस्य तस्य ज्ञानमिति विग्रहः । अथ परव्यापारापेक्षया तदुच्यते परार्थ इति । तथा