428 ऽप्ययुक्तं, स्वार्थेऽपि परार्थत्वप्रसङ्गात्, आपेक्षिकत्वात्परत्वस्य, पारावारवत् ॥ १४६३ ॥
॥ १४६४ ॥ १४६५ ॥ १४६६ ॥ १४६७ ॥


त्रिरूपलिङ्गेत्यादिना प्रतिविधत्ते—


त्रिरूपलिङ्गपूर्वत्वं ननु संवादिलक्षणम् ।

तल्लक्षणं च मानत्वं तत्किं तस्मान्निषिध्यते ॥ १४६८ ॥

तत्र प्रथमे प्रयोगे त्रिरूपलिङ्गपूर्वत्वादित्यस्य हेतोर्विरुद्धतामाह—संवादिलक्षण
मिति । संवादित्वमनेन लक्ष्यत इति कृत्वा । यतस्त्रिरूपलिङ्गजं यज्ज्ञानं तत्पारम्प
र्येण वस्तुनि प्रतिबद्धमतोऽविसंवादकं प्रत्यक्षवत् । यथाह—लिङ्गलिङ्गिधियोरेवं
पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासशून्ययोरप्यवञ्चनम् ॥
इति । तल्लक्षणं
चे
ति । अविसंवादलक्षणम् । यथाह—प्रमाणमविसंवादिज्ञानमिति । नहि प्रत्य
क्षेऽपि तत्प्रमाणवादिनाऽन्यत्प्रमाणव्यवस्थानिबन्धनं शक्यमादर्शयितुमन्यत्राविसंवा
दात् । स च त्रिरूपलिङ्गजन्येऽप्यस्तीति किमिति तस्मात्रिरूपलिङ्गपूर्वत्वादविसंवा
दित्वहेतोः प्रामाण्यं निषिध्यते । एतेन साध्यसाधनयोरर्थतो विरोध उक्तः । तथाहि
—यत्र त्रिरूपलिङ्गपूर्वत्वं तत्राविसंवादित्वं यत्राविसंवादित्वं तत्र प्रामाण्यं, प्रामा
ण्याप्रामाण्ययोश्च परस्परपरिहारस्थितलक्षणो विरोध इति सामर्थ्याद्विरुद्धो हेतुर्नि
र्दिष्टः ॥ १४६८ ॥


मिथ्याज्ञानमित्यादिना दृष्टान्तस्य साध्यविकलतामाह ।


मिथ्याज्ञानं समानं च पूर्वपक्षव्यपेक्षया ।

इष्टघातकृता जन्यं ज्ञानमुक्तं न वस्तुतः ॥ १४६९ ॥

वस्तुस्थित्या हि तज्ज्ञानमविसंवादि निश्चितम् ।

वादीष्टविपरीतस्य प्रमाणमत एव तत् ॥ १४७० ॥

अतो विरुद्धता हेतोर्दृष्टान्ते चाप्यसाध्यता ।

एतेनैव प्रकारेण द्वितीये हेत्वसिद्धता ॥ १४७१ ॥

यतो वादीष्टविपरीतसाधनात्तदपि प्रमाणमेव, अन्यथा हि साध्यान्तरमपेक्ष्य स
र्वदैव सर्वस्य यद्यप्रामाण्यं व्यवस्थाप्येत, प्रत्यक्षेऽपि प्रसङ्गः स्यात् । पूर्वपक्षापेक्षया
तु तन्मिथ्याज्ञानमुक्तम् न वस्तुस्थित्या । पूर्वस्य—प्रथमवादिनः पक्षः, पूर्वपक्षः—
तस्य व्यपेक्षेति विग्रहः । यो ह्यनाधेयातिशयैकपरा(दा ?)र्थत्वं चक्षुरादीनामिच्छति