त्रिरूपलिङ्गेत्यादिना प्रतिविधत्ते—


त्रिरूपलिङ्गपूर्वत्वं ननु संवादिलक्षणम् ।

तल्लक्षणं च मानत्वं तत्किं तस्मान्निषिध्यते ॥ १४६८ ॥

तत्र प्रथमे प्रयोगे त्रिरूपलिङ्गपूर्वत्वादित्यस्य हेतोर्विरुद्धतामाह—संवादिलक्षण
मिति । संवादित्वमनेन लक्ष्यत इति कृत्वा । यतस्त्रिरूपलिङ्गजं यज्ज्ञानं तत्पारम्प
र्येण वस्तुनि प्रतिबद्धमतोऽविसंवादकं प्रत्यक्षवत् । यथाह—लिङ्गलिङ्गिधियोरेवं
पारम्पर्येण वस्तुनि । प्रतिबन्धात्तदाभासशून्ययोरप्यवञ्चनम् ॥
इति । तल्लक्षणं
चे
ति । अविसंवादलक्षणम् । यथाह—प्रमाणमविसंवादिज्ञानमिति । नहि प्रत्य
क्षेऽपि तत्प्रमाणवादिनाऽन्यत्प्रमाणव्यवस्थानिबन्धनं शक्यमादर्शयितुमन्यत्राविसंवा
दात् । स च त्रिरूपलिङ्गजन्येऽप्यस्तीति किमिति तस्मात्रिरूपलिङ्गपूर्वत्वादविसंवा
दित्वहेतोः प्रामाण्यं निषिध्यते । एतेन साध्यसाधनयोरर्थतो विरोध उक्तः । तथाहि
—यत्र त्रिरूपलिङ्गपूर्वत्वं तत्राविसंवादित्वं यत्राविसंवादित्वं तत्र प्रामाण्यं, प्रामा
ण्याप्रामाण्ययोश्च परस्परपरिहारस्थितलक्षणो विरोध इति सामर्थ्याद्विरुद्धो हेतुर्नि
र्दिष्टः ॥ १४६८ ॥