मिथ्याज्ञानमित्यादिना दृष्टान्तस्य साध्यविकलतामाह ।


मिथ्याज्ञानं समानं च पूर्वपक्षव्यपेक्षया ।

इष्टघातकृता जन्यं ज्ञानमुक्तं न वस्तुतः ॥ १४६९ ॥

वस्तुस्थित्या हि तज्ज्ञानमविसंवादि निश्चितम् ।

वादीष्टविपरीतस्य प्रमाणमत एव तत् ॥ १४७० ॥

अतो विरुद्धता हेतोर्दृष्टान्ते चाप्यसाध्यता ।

एतेनैव प्रकारेण द्वितीये हेत्वसिद्धता ॥ १४७१ ॥

यतो वादीष्टविपरीतसाधनात्तदपि प्रमाणमेव, अन्यथा हि साध्यान्तरमपेक्ष्य स
र्वदैव सर्वस्य यद्यप्रामाण्यं व्यवस्थाप्येत, प्रत्यक्षेऽपि प्रसङ्गः स्यात् । पूर्वपक्षापेक्षया
तु तन्मिथ्याज्ञानमुक्तम् न वस्तुस्थित्या । पूर्वस्य—प्रथमवादिनः पक्षः, पूर्वपक्षः—
तस्य व्यपेक्षेति विग्रहः । यो ह्यनाधेयातिशयैकपरा(दा ?)र्थत्वं चक्षुरादीनामिच्छति
429 तदभिप्रायापेक्षया मिथ्याज्ञानमुच्यते । अनित्यानेकविज्ञानादिहेतुत्वेन चक्षुरादीनां
सिद्धत्वात् । विरुद्धतेति । त्रिरूपलिङ्गपूर्वत्वस्याप्रमाणे क्वचिदप्यभावात् । प्रमाणे तु
तत्रैवेष्टविघातकृता जन्ये ज्ञाने भावात् । ननु च लोकायतं प्रति विरुद्धसाधने कर्त्तव्ये
दृष्टान्तो न सिद्ध एव । नहीष्टविघातकृज्जन्यं ज्ञानं प्रमाणमिच्छति परः, नचान्य
तरासिद्धो दृष्टान्तो भवति । य एव तूभयनिश्चितवाची स एव साधनदूषणमिति
न्याय(यात् ?) उच्यते—यद्यपि परेणात्र प्रामाण्यं नेष्टं वाचा, तथाप्यसंवादित्वं
त्वशक्यापह्नवत्वादिष्टमेव, तदिच्छतां सामर्थ्यात्प्रामाण्यमपि तेन वस्तुस्थित्याऽभ्युपग
न्तव्यमिति वस्तुबलप्रकृत्या विरुद्ध उद्भाव्यते न पराभ्युपगमानुरोधेन । अथवा
विरुद्धहेतुसंसूचनाद्विरुद्धः । तत्र विरुद्धो हेतु—यदविसंवादि तत्प्रमाणं यथा प्रत्यक्षं,
संवादि च त्रिरूपलिङ्गजन्यं ज्ञानमिति स्वभावहेतुः । नचासिद्धो निःस्वभावत्वानि
र्हेतुत्वप्रसङ्गात्, प्रत्यक्षाप्रामाण्यप्रसङ्गान्नैकान्तिकः । असाध्यतेति । नात्र साध्यम
स्तीत्यसाध्यस्तद्भावोऽसाध्यता । साध्यविकलतेति यावत् । द्वितीय इति । नच
त्रैरूप्य इत्यादौ । हेत्वसिद्धतेति । अननुमाने क्वचिदप्यभावात् । एतेनैवेति ।
त्रिरूपलिङ्गेत्यादिना न्यायेन ॥ १४६९ ॥ १४७० ॥ १४७१ ॥