अनुमानविरोधस्येत्यादौ परिहारमाह—यत्तादात्म्येत्यादि ।


यत्तादात्म्यतदुत्पत्त्या सम्बन्धं परिनिश्चितम् ।

तदेव साधनं प्राहुः सिद्धये न्यायवादिनः ॥ १४७२ ॥

अनुमानविरोधादिरीदृशेऽस्ति न साधने ।

नैव तद्ध्यात्महेतुभ्यां विना सम्भवति क्वचित् ॥ १४७३ ॥

परस्परविरुद्धौ न धर्मौ नैकत्र वस्तुनि ।

युज्येते सम्भवो नातो विरुद्धाव्यभिचारिणः ॥ १४७४ ॥

ईदृश इति । तादात्म्यतदुत्पत्तिप्रतिबद्धे । आत्महेतुभ्यामिति । स्वभावेन
कारणेन च विना यथाक्रमं तल्लिङ्गं न भवति निःस्वभावत्वनिर्हेतुत्वप्रसङ्गात् । यदु
क्तम्—विवक्षितः साध्यधर्मो न धर्मिविशेषणमिति, तत्र यदि साध्यधर्मो न धर्मि
विशेषणं तदा समुदाय एव नास्तीति ततश्चैतत्समुदायैकदेशत्वादित्यसिद्धो हेतुः
स्यात् । यच्चोक्तम्—सर्वत्रानुमाने विशेषविरुद्धानां सम्भव इति तदयुक्तम् । यतः
साध्यविपर्ययसाधनाद्बिरुद्ध इष्यते, नच विशेषः साधयितुमिष्टः । वस्तुबलप्रवृत्ता
430 नुमाने विषये न विरुद्धाव्यभिचारी च सम्भवति । एकस्मिन्धर्मिणि परस्परविरुद्ध
धर्मद्वयप्रसङ्गात् ॥ १४७२ ॥ १४७३ ॥ १४७४ ॥