430 नुमाने विषये न विरुद्धाव्यभिचारी च सम्भवति । एकस्मिन्धर्मिणि परस्परविरुद्ध
धर्मद्वयप्रसङ्गात् ॥ १४७२ ॥ १४७३ ॥ १४७४ ॥


यदुक्तमवस्थादेशकालानामित्यादि, तत्राह—अभ्यस्तेत्यादि ।


अभ्यस्तलक्षणानां च सम्यग्लिङ्गविनिश्चये ।

अनुमावृत्तिरन्या तु नानुमेत्यभिधीयते ॥ १४७५ ॥

अवस्थादेशकालानां भेदाद्भिन्नासु शक्तिषु ।

भावानामनुमानेन नातः सिद्धिः सुदुर्लभा ॥ १४७६ ॥

यत्नेनानुमितोऽप्यर्थः कुशलैरनुमातृभिः ।

नान्यथा साध्यते सोऽन्यैरभियुक्ततरैरपि ॥ १४७७ ॥

सुपरिनिश्चितं लिङ्गं गमकमिष्यते न संदिग्धम्, नहि धूमो बाष्पादिरूपेण स
न्दिह्यमानो वह्नेर्निश्चायको भवति । लिङ्गनिश्चय एव कथमिति चेत् । अभ्यासात् ।
यथा मणिरूपादिषु तद्विदाम् । तथाहि—विवेचयन्त्येव बाष्पादिभ्यो धूमादीनभ्य
स्ततत्स्वलक्षणाः । अ(थ)विवेच्य प्रवृत्ताश्चैते प्राप्नुवन्त्येव वह्निम् । तस्माद्यतः सुविवे
चितं लिङ्गं न व्यभिचरति, तेनावस्थादिभेदभिन्नानां सिद्धिर्न दुर्लभा । नापि सुवि
वेचिताल्लिङ्गात्परिनिश्चितोऽर्थोऽन्यथा शक्यते कर्तुम् । नहि धूमात्सुपरिनिश्चितादनु
मितस्य वह्नेरन्यथाभावः शक्यते कर्तुम्, एकस्य विरुद्धस्वभावद्वयायोगात् । यच्चोक्तं
—न देवदत्तो भारोद्वहनसमर्थ इत्यादि, यच्चाभ्रपटलं वह्निना दह्यत इति, तल्लिङ्गमेव
न भवति त्रैरूप्याभावात् । नह्यदर्शनमात्रेण विपक्षाद्धेतोर्व्यावृत्तिः शक्यते कर्तुम् ।
यदाह— नचादर्शनमात्रेण विपक्षाद्व्यतिरेकिता इति । किं तर्हि । तादात्म्यतदुत्प
त्तिसम्बन्धनियमादविनाभावनियमः । यदाह— कार्यकारणभावाद्वा स्वभावाद्वा
नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात्
इति ॥ नचात्र तादात्म्य
तदुत्पत्तिसम्बन्धोऽस्ति ॥ १४७५ ॥ १४७६ ॥ १४७७ ॥


स्यादेतत्—सुपरिनिश्चितं लिङ्गं न व्यभिचरतीत्येतदेव कुतो नह्यत्र युक्तिरस्ती
त्याह—नहि स्वभाव इत्यादि ।


नहि स्वभावः कार्यं वा स्वभावात्कारणादृते ।

भेदानिमित्तताप्राप्तेस्ते विनाऽस्ति न चानुमा ॥ १४७८ ॥

द्विविधमेव हि लिङ्गं यदुत स्वभावः कार्यमिति । अनुपलब्धेस्तु स्वभावेऽन्त