अथाप्यक्षणिकास्ते स्युः कृतान्तस्ते विरुध्यते ।

क्षणिकाः सर्वसंस्काराः सिद्धान्ते हि प्रकाशिताः ॥ १८३३ ॥

अथाक्षणिका इति पक्षः, एवं सति कृतान्तविरोधः—कृतान्तः सिद्धान्त
उच्यते । तथाहि क्षणिकाः सर्वसंस्कारा इति सिद्धान्तः ॥ १८३३ ॥


युक्तिबाधाऽपि सन्तश्चेन्नियमात्क्षणभङ्गिनः ।

वर्त्तमाना इव प्राक्तु प्रतिबन्धोऽत्र साधितः ॥ १८३४ ॥

515

किंच—न केवलं सिद्धान्तविरोधो मानविरोधोऽपि प्रतिज्ञायाः । तथाहि—
यत्सत्तत्सर्वं क्षणिकं यथा वर्त्तमानं, सन्तश्चातीतानागता इति नियमात्क्षणभङ्गिनः
प्राप्ताः । प्राक्तु—क्षणभङ्गाधिकारे, प्रतिबन्धोऽस्य हेतोः प्रसाधित इति नानैकान्ति
कत्वम् । तथाहि—अर्थक्रियाकारित्वं सत्त्वलक्षणम्, अक्षणिकस्य च क्रमयौगपद्या
भ्यामर्थक्रियाविरोधादर्थक्रियानिवृत्तौ तल्लक्षणस्य सत्त्वस्य निवृत्तिरिति साध्यविपक्षा
न्निवृत्तं सत्त्वम् ॥ १८३४ ॥