किंच—इमेऽतीतानागता अर्थक्रियासमर्था वा स्युर्न वा समर्था इति पक्षौ ।
यदि समर्थास्तदा सामर्थ्यसद्भावे वर्त्तमानाः प्राप्नुवन्ति, अविवादास्पदीभूतवर्त्तमान
वत् । प्रयोगः—ये येऽर्थक्रियासमर्थास्ते वर्त्तमानाः, यथाऽविवादास्पदीभूता वर्त्त
मानाः, अर्थक्रियासमर्थाश्चातीतादय इति स्वभावहेतुप्रसङ्ग । न चायमनैकान्तिकः,
यतो वर्त्तमानत्वनिवृत्तौ नष्टाजातानां सर्वसामर्थ्यवियोगित्वं प्रसज्येत, आकाशाम्भो
रुहवत् । प्रयोगः—ये वर्त्तमाना न भवन्ति ते क्वचित्समर्था अपि न भवन्ति,
यथा व्योमाम्भोरुहं, न भवन्ति चातीतादयो वर्त्तमाना इति व्यापकानुपलब्धिः । न
चाकाशप्रतिसङ्ख्यानिरोधाप्रतिसङ्ख्यानिरोधैरसंस्कृतैरनेकान्तस्तेषामपि पक्षीकरणात् ।
अतोऽनैकान्तिकत्वकल्पनाया नातिनिबन्धनम् । तथाहि—येयं प्रतिनियतार्थक्रिया
516 शक्तिर्भावानां सा प्रत्ययोद्भवेत्यङ्गीकर्त्तव्यम्, अन्यथा यदि निर्हेतुका स्यात्तदा निय
महेतोरभावात्प्रतिनियता शक्तिर्भावानां न स्यात् । ततश्च सर्वं सर्वस्मिन्कार्ये उपयु
ज्येत । तस्मात्कृ(तस्मादकृ ?) ताकाशादीनां सामर्थ्यनियमो न युक्त इति न तैरनैका
न्तिकत्वकल्पनाया निबन्धनम् । नच प्रथमे हेतौ संदिग्धविपक्षवृत्तिकता, यस्मान्नि
यतायामर्थक्रियायां या शक्तिस्तस्या यदेतज्जन्म हेतुप्रत्ययनिर्मितं तदेव वर्त्तमानस्य
लक्षणम्, एतच्च वर्त्तमानत्वलक्षणमविकलमतीतादिष्वप्यस्तीति निमित्तान्तराभावा
त्किमिति वर्त्तमानता (न) प्रसज्यते ॥ १८३५ ॥ १८३६ ॥ १८३७ ॥ १८३८ ॥
॥ १८३९ ॥ १८४० ॥
अर्थक्रियासमर्थाः स्युरतीतानागता इमे ।
न वा सामर्थ्यसद्भावे वर्त्तमानास्तदन्यवत् ॥ १८३५ ॥
अवर्त्तमानतायां तु सर्वशक्तिवियोगिनः ।
नष्टाजाताः प्रसज्यन्ते व्योमतामरसादिवत् ॥ १८३६ ॥
तुल्यपर्यनुयोगाश्च सर्वे व्योमादयोऽकृताः ।
अनैकान्तिकताक्लृप्तेर्न तेपि विनिबन्धनम् ॥ १८३७ ॥
नियमार्थक्रियाशक्तिर्भावानां प्रत्ययोद्भवा ।
अहेतुत्वे समं सर्वमुपयुज्येत सर्वतः ॥ १८३८ ॥
नियतार्थक्रियाशक्तिजन्म प्रत्ययनिर्मितम् ।
वर्त्तमानस्य भावस्य लक्षणं नान्यदस्ति च ॥ १८३९ ॥
अतीतानागतानां च तदखण्डं समस्ति वः ।
तत्किं न वर्त्तमानत्वममीषामनुषज्यते ॥ १८४० ॥