516 शक्तिर्भावानां सा प्रत्ययोद्भवेत्यङ्गीकर्त्तव्यम्, अन्यथा यदि निर्हेतुका स्यात्तदा निय
महेतोरभावात्प्रतिनियता शक्तिर्भावानां न स्यात् । ततश्च सर्वं सर्वस्मिन्कार्ये उपयु
ज्येत । तस्मात्कृ(तस्मादकृ ?) ताकाशादीनां सामर्थ्यनियमो न युक्त इति न तैरनैका
न्तिकत्वकल्पनाया निबन्धनम् । नच प्रथमे हेतौ संदिग्धविपक्षवृत्तिकता, यस्मान्नि
यतायामर्थक्रियायां या शक्तिस्तस्या यदेतज्जन्म हेतुप्रत्ययनिर्मितं तदेव वर्त्तमानस्य
लक्षणम्, एतच्च वर्त्तमानत्वलक्षणमविकलमतीतादिष्वप्यस्तीति निमित्तान्तराभावा
त्किमिति वर्त्तमानता (न) प्रसज्यते ॥ १८३५ ॥ १८३६ ॥ १८३७ ॥ १८३८ ॥
॥ १८३९ ॥ १८४० ॥


स्वर्गापवर्गसंसर्गयत्नोऽयमफस्ततः ।

ईहासाध्यं न किञ्चिद्धि फलमत्रोपलक्ष्यते ॥ १८४१ ॥

किंच—यस्यातीतानागतं द्रव्यतोऽस्ति तस्य फलमपि नित्यमस्तीति स्वर्गापवर्गप्रा
प्त्यर्थो यत्नो विफलः स्यात्, ईहासाध्यस्य कस्यचित्फलस्याभावात् । किं तत्र व्रतनि
यमादिलक्षणाया ईहायाः सामर्थ्यं स्यात् । उत्पादने सामर्थ्यमिति चेत् । उत्पादनं
तर्ह्यभूत्वा भवतीति सिद्धम् । अथ तदप्यस्ति, कस्येदानीं क्व सामर्थ्यम् । वर्त्तमानी
करणसामर्थ्यमिति चेत् । किमिदं वर्त्तमानीकरणं नाम । देशान्तराकर्षणं चेत् ।
नित्यं तर्हि वस्तु प्रसक्तं, सर्वदाऽवस्थितत्वात् । अरूपाणां वेदनादीनां निष्क्रियत्वा
त्कथमाकर्षणं भवेत् । यच्च तदाकर्षणं तदभूत्वा भवतीति सिद्धम् । स्वर्गः सुमेरुपृ
ष्ठादिः अपवर्गो मोक्षः, तयोः प्रप्तिः संसर्गः तत्र यत्नो व्रतनियतादिः ॥ १८४१ ॥


अथ नार्थक्रियाशक्तिस्तेषामभ्युपगम्यते ।

यद्येवमत एवैषामसत्त्वं व्योमपुष्पवत् ॥ १८४२ ॥

अथ नार्थक्रियासमर्था इति द्वितीयपक्ष आश्रीयते । एवं तर्ह्यत एवार्थक्रियाशून्य
त्वादसत्त्वं प्राप्नोति खपुष्पवत् । सर्वसामर्थ्यविवेकलक्षणत्वादसत्त्वस्य ॥ १८४२ ॥


एवं तावदतीतानागतानामसत्तासाधकं प्रमाणमभिधाय सत्तासाधकं प्रमाणमपा
कर्तुमाह—हेतव इत्यादि ।


हेतवो भावधर्मास्तु नासिद्धे सिद्धिभागिनः ।

वर्त्तमानत्वसिद्धेर्वा विरुद्धा धर्मिबाधनात् ॥ १८४३ ॥

हेतवो हि पूर्वोक्ता अध्वसंगृहीतत्वादित्यादय आश्रयासिद्धाः, अतीतादेर्धर्मिणोऽ