स्वर्गापवर्गसंसर्गयत्नोऽयमफस्ततः ।

ईहासाध्यं न किञ्चिद्धि फलमत्रोपलक्ष्यते ॥ १८४१ ॥

किंच—यस्यातीतानागतं द्रव्यतोऽस्ति तस्य फलमपि नित्यमस्तीति स्वर्गापवर्गप्रा
प्त्यर्थो यत्नो विफलः स्यात्, ईहासाध्यस्य कस्यचित्फलस्याभावात् । किं तत्र व्रतनि
यमादिलक्षणाया ईहायाः सामर्थ्यं स्यात् । उत्पादने सामर्थ्यमिति चेत् । उत्पादनं
तर्ह्यभूत्वा भवतीति सिद्धम् । अथ तदप्यस्ति, कस्येदानीं क्व सामर्थ्यम् । वर्त्तमानी
करणसामर्थ्यमिति चेत् । किमिदं वर्त्तमानीकरणं नाम । देशान्तराकर्षणं चेत् ।
नित्यं तर्हि वस्तु प्रसक्तं, सर्वदाऽवस्थितत्वात् । अरूपाणां वेदनादीनां निष्क्रियत्वा
त्कथमाकर्षणं भवेत् । यच्च तदाकर्षणं तदभूत्वा भवतीति सिद्धम् । स्वर्गः सुमेरुपृ
ष्ठादिः अपवर्गो मोक्षः, तयोः प्रप्तिः संसर्गः तत्र यत्नो व्रतनियतादिः ॥ १८४१ ॥