अथ नार्थक्रियाशक्तिस्तेषामभ्युपगम्यते ।

यद्येवमत एवैषामसत्त्वं व्योमपुष्पवत् ॥ १८४२ ॥

अथ नार्थक्रियासमर्था इति द्वितीयपक्ष आश्रीयते । एवं तर्ह्यत एवार्थक्रियाशून्य
त्वादसत्त्वं प्राप्नोति खपुष्पवत् । सर्वसामर्थ्यविवेकलक्षणत्वादसत्त्वस्य ॥ १८४२ ॥