एवं तावदतीतानागतानामसत्तासाधकं प्रमाणमभिधाय सत्तासाधकं प्रमाणमपा
कर्तुमाह—हेतव इत्यादि ।


हेतवो भावधर्मास्तु नासिद्धे सिद्धिभागिनः ।

वर्त्तमानत्वसिद्धेर्वा विरुद्धा धर्मिबाधनात् ॥ १८४३ ॥

हेतवो हि पूर्वोक्ता अध्वसंगृहीतत्वादित्यादय आश्रयासिद्धाः, अतीतादेर्धर्मिणोऽ
517 सिद्धत्वात् । यथाह—नासिद्धे भावधर्मोऽस्तीति । अथापि सिद्धाः स्युः, तथापि
वर्त्तमानत्वसिद्धेर्धर्मस्वरूपविपरीतसाधनाद्विरुद्धा हेतवः ॥ १८४३ ॥