कथमिदानीमध्वसंगृहीतत्वमतीतानागतानां रूपादीनां निर्दिष्टम्, नहि शशवि
षाणमत्यन्तासदतीतमनागतं वा व्यवस्थाप्यत इत्याह—भूत्वेत्यादि ।
भूत्वा यद्विगतं रूपं तदतीतं प्रकाशितम् ।
सति प्रत्ययसाकल्ये भावि यत्तदनागतम् ॥ १८४४ ॥
सत्त्वे तु वर्त्तमानत्वमासज्येतेति साधितम् ।
विद्यमानत्वमात्रं हि वर्त्तमानस्य लक्षणम् ॥ १८४५ ॥
सुबोधम् ॥ १८४४ ॥ १८४५ ॥