रूपवेदनादिभावस्तर्हि कथं निर्दिष्ट इत्याह—रूपादित्वमित्यादि ।


रूपादित्वमतीतादेर्भूतां तां भाविनीं तथा ।

अध्यारोप्य दशामस्य कथ्यते न तु भावतः ॥ १८४६ ॥

तां दशामिति । तामवस्थाम् ॥ १८४६ ॥