द्व्याश्रयं तर्हि कथं विज्ञानमुक्तमित्याह—द्वयं प्रतीत्येति ।


द्वयं प्रतीत्यविज्ञानं यदुक्तं तत्त्वदर्शिना ।

सेष्टा सविषयं चित्तमभिसन्धाय देशना ॥ १८४७ ॥

द्विविधं हि विज्ञानं सालम्बनमनालम्बनं च, यत्सालम्बनं तदभिसन्धाय द्व्या
श्रयविज्ञानदेशना भगवतः ॥ १८४७ ॥