अथ निरालम्बनमपि ज्ञानमस्तीति कथमवसितमित्याह—नित्येश्वरादीत्यादि ।


नित्येश्वरादिबुद्धीनां नैवालम्बनमस्ति हि ।

शब्दनामादिधर्माणां तदाकारवियुक्तितः ॥ १८४८ ॥

आदिशब्देन प्रधानकालादयः परिकल्पिता गृह्यन्ते । न चैतन्मन्तव्यं शब्दाद्या
लम्बना इमा बुद्धय इति कथयति—शब्दनामादीत्यादि । तस्येश्वरादेराकारो नित्य
त्वसकलहेतुत्वादिः, यस्तया बुद्ध्याऽध्यवसीयते, तेनाकारेण वियोगः शब्दस्य नाम्नो
वा विप्रयुक्तसंस्कारविशेषस्य । आदिशब्देन निमित्तादेः परोपगतस्यार्थप्रतिबिम्बका
दिस्वभावस्य ॥ १८४८ ॥