यदि तर्हि निर्विषयमपि विज्ञानमस्ति तत्कथं ज्ञानमिति व्यपदिश्यते, तथाहि
518 विजानातीति विज्ञानमिति गीयते, असति च विज्ञेये किं विज्ञानं स्यादित्याह—
बोधानुगतिमात्रेणेति ।


बोधानुगतिमात्रेण विज्ञानमिति चोच्यते ।

सा चास्याजडरूपत्वं प्राकाश्यात्परिकल्पितम् ॥ १८४९ ॥

बोधानुगमोऽपि विना बोधेन (न) सम्भवतीति चेदाह—सा चेति । सा-बो
धानुगतिः । अस्य-विज्ञानस्य । किमुच्यते ?, यत्तदजडरूपत्वम्, प्रकाश्यवस्त्व
न्तराभावात्प्रकाशान्तरविरहाच्च नभोवर्त्त्यालोकवत्प्रकाशरूपत्वादभिधीयते बोधरूप
तेति ॥ १८४९ ॥