अतीन्द्रियेत्यादिनोपसंहरति ।


अतीन्द्रियार्थदृक्तस्माद्विधूतान्तस्तमश्चयः ।

वेदार्थप्रविभागज्ञः कर्त्ता चाभ्युपगम्यताम् ॥ ३१२३ ॥

इति स्वतःप्रामाण्यवादपरीक्षा ।

अन्तस्तमः—क्लिष्टाक्लिष्टमज्ञानम्, तस्य चयः—संहतिः, स विधूतो येन स
तथोक्तः । प्रविभागज्ञः—व्याख्याता । कर्त्तेति । वेदस्येति शेषः । तदेवं प्रतिज्ञा
तार्थस्य सर्वथा प्रमाणबाधितत्वम्, हेतोश्च तद्भावभावित्वादित्येतस्यानैकान्तिकत्वं
साधितम् । सपक्षसिद्ध्यर्थं च प्रमाणं यः संदेहविपर्यासविषयैरित्यादिना प्रदर्शित
मिति क्षेपार्थः ।


यत्तु पक्षचतुष्टयमुपन्यस्य पक्षत्रये दोषाभिधानं कृतम्, तत्रापि न काचिद्बौ
द्धस्य कृ(क्ष?)तिः, नहि बौद्धैरेषां चतुर्णामेकतमोऽपि पक्षोऽभीष्टोऽनियमपक्षस्येष्ट
त्वात् । तथाहि—उभयमप्येतत्किञ्चित्स्वतः किञ्चित्परत इति पूर्वमुपवर्णितम् ।
अतएव पक्षचतुष्टयोपन्यासोऽप्ययुक्तः । पञ्चमस्याप्यनियमपक्षस्य सम्भवात् ।


अपरे त्वन्यथा प्रतिज्ञार्थं वर्णयन्ति—बोधात्मकत्वं नाम प्रामाण्यम्, तच्च ज्ञा
नानां स्वाभाविकमेव, न गुणकृतं, गुणाभावेऽपि विपर्ययज्ञाने बोधात्मकत्वसम्भ
वात् । अतः स्वतःप्रामाण्यमित्युच्यते । गुणैस्तु दोषनिराकरणमेव क्रियत इत्यत
स्तन्निर्घाताय प्रामाण्यं गुणानपेक्षते नात्मप्रतिलम्भायेति । तदेतदसम्यक् । यतो
न बोधात्मकत्वमेव प्रामाण्यं युक्तम् । विपर्ययज्ञानेऽपि सम्भवात् । बोधविशेषः
प्रामाण्यमिति चेत्, न तर्हि वक्तव्यम्—तच्च ज्ञानानां स्वाभाविकमेव न गुणकृ
तम्, गुणाभावेऽपि विपर्ययज्ञाने सद्भावादिति । तथाहि—यदि बोधविशेषः प्रामा
ण्यमिष्टं स्यात्तदा तस्यैव गुणकृतत्वे व्यभिचारोपदर्शनं युक्तं नान्यस्य । नच विप
812 र्ययज्ञानेऽपि सद्भावादित्यनेन बोधविशेषस्य गुणकृतत्वे व्यभिचारो दर्शितः । किं
तर्हि ?—बोधसामान्यस्य । नच परेण बोधसामान्यं गुणकृतमिष्यते । किं तर्हि ? ।
बोधविशेषः । नच तस्य गुणकृतत्वे व्यभिचारः शक्यते प्रतिपादयितुम् । नचाप्य
स्माभिर्गुणकृतत्वेन परतःप्रामाण्यमिष्टम्, यतस्तन्निषेधेन भवद्भिः स्वतो व्यवस्था
प्यते । किं तर्हि ? । अनुभूतोऽप्यसौ बोधविशेषः क्वचिद्भ्रान्तिनिमित्तसद्भावाद्यथानु
भवं न निश्चयमुत्पादयतीति । अतस्तन्निश्चयोत्पत्तेः परत इति व्यवस्थाप्यते । किं
चाप्रामाण्येऽपि शक्यमेवं कल्पयितुम् । बोधात्मकत्वं नामाप्रामाण्यम्, तच्च ज्ञानानां
स्वाभाविकं न दोषकृतम्, दोषाभावेऽपि सम्यग्ज्ञाने सम्भवादित्यतः स्वतोऽप्रामा
ण्यमुच्यते, दोषैस्तु गुणनिराकरणमेव क्रियत इत्यतस्तन्निराकरणायाप्रामाण्यं दोषा
नपेक्षते नात्मप्रतिलम्भायेति । तस्माद्यत्किंचिदेतत् ।


उवेयकस्त्वाह (?)—न बोधात्मकत्वं नाम ज्ञानानां प्रामाण्यम्, किं तर्हि ?,
अर्थाविसंवादित्वम् । तथाहि—सत्यपि बोधात्मकत्वे यत्रार्थाविसंवादित्वं नास्ति
तत्राप्रामाण्यम्, यथा शुक्तिकायां रजतज्ञानस्य । विनापि बोध(बोधात्म?)कत्वं यत्रा
र्थाविसंवादित्वमस्ति तत्र प्रामाण्यं यथाग्नौ धूमस्य, तस्मादन्वयव्यतिरेकाभ्यामविसं
वादित्वमेव प्रामाण्यं सिद्धम् । तच्च ज्ञानमात्मीयादेव हेतोरुपजायते । न सामग्र्य
न्तरादित्यतः स्वतः सर्वप्रमाणानां प्रामाण्यमित्युच्यते । स्वशब्दस्यात्मीयवचनत्वात् ।
स्वतः—आत्मीयाद्धेतोरित्यर्थः । नहि स्वतोऽसती शक्तिरित्यादिना पश्चादर्द्धेन साम
ग्र्यन्तराद्भावनिषेधे हेतुरुक्तः । नहि स्वतोऽसती कर्तुमन्येन विज्ञानसामग्र्यन्तराति
रिक्तेन शक्यत इत्यर्थः । स्यादेतत्—विज्ञानहेतवोऽपि प्रमाणाप्रमाणसाधारणाः,
तत्कथं विज्ञानहेतुमात्रप्रतिबद्धं प्रामाण्यं स्यात्, तस्मात्सामग्र्यन्तरजन्यमेव प्रामाण्यं
नतु ज्ञानहेतुमात्रजन्यम् । तच्च सामग्र्यन्तरं गुणसहितमेव, इन्द्रियादिगुणाश्चास्य
कारणमिति । शाब्दे चाप्तप्रणीतत्वमेव कारणगुणत्वेन व्यवहारान्निश्चितम् । वेदे च
त(दस)द्भावादप्रामाण्यं प्रसक्तमिति । नैष दोषः । सामग्र्यन्तरजन्यत्वासिद्धत्वात् ।
नहि विधिमुखेन गुणानां प्रामाण्याख्यकार्योत्पत्तौ व्यापारः प्रतीतः संभवति ।
इन्द्रियादिस्वरूपमेव ह्यन्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकम् । अञ्जनादीनां तु
दोषापगमे व्यापारो न गुणाधाने । अथापि स्यादिन्द्रियादिस्वरूपमप्रामाण्येऽप्यस्तीति
सर्वत्र प्रामाण्योत्पत्तिप्रसङ्गोऽविकलकारणत्वात् । नैतदस्ति । दोषसमवधाने तु
सामग्र्यन्तराद्विलक्षणकार्योत्पत्तिर्भविष्यति । स्यादेतत्—विपर्ययः कस्मान्न विज्ञा
813 यते—इन्द्रियादिस्वरूपमेवान्यनिरपेक्षं व्यभिचारिज्ञानोत्पादकं, गुणसमवधाने तु
सामग्र्यन्तरमर्थाविसंवादिज्ञानोत्पादकमिति । सत्यमेवमेतत्, अन्वयव्यतिरेकाभ्यां
तु विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्योत्पादकं दृष्टमिति प्रत्यक्षेऽपि च
सम्भवात्तदेवोत्पादकं कल्प्यते । विपर्ययज्ञानरूपं तु कार्यमिन्द्रियादिस्वरूपादनुत्पद्य
मानं सामग्र्यन्तरं कल्पयतीत्यनवद्यमिति । तदेतत्सर्वं नानवद्यम् । तथाहि—
यत्तावदुक्तमर्थाविसंवादित्वमेव ज्ञानस्य प्रामाण्यं तच्चात्मीयादेव हेतोस्तस्योपजायत
इति, अत्र सिद्धसाध्यता, यत इष्यत एवास्माभिः प्रमाणमविसंवादिविज्ञानमिति
वचनादर्थाविसंवादित्वं ज्ञानस्य प्रामाण्यम्, किन्तु ज्ञानमिति विशेषेणोपादानाद्धू
मादेरज्ञानस्वभावस्य मुख्यतः प्रामाण्यं नेष्टमित्यर्थाविसंवादित्वमात्रं प्रामाण्यमसि
द्धम् । ज्ञानस्यैव हेयोपादेयवस्तुनि प्रवृत्तौ प्राधान्यात् । तथाहि—सत्यप्यविनाभा
विनि धूमादौ न तावत्पुरुषस्यार्थे प्रवृत्तिर्भवति यावद्विज्ञानोत्पादो न भवति, तस्मा
त्प्रवृत्तौ ज्ञानस्याव्यवहितं कारकत्वमिति तदेव प्रमाणम् । यदाह— धीप्रमाणता ।
प्रवृत्तेस्तत्प्रधानत्वाद्धेयोपादेयवस्तुनि
इति, यच्चाविसंवादित्वं ज्ञानस्यार्थप्रापणशक्ति
लक्षणं तत्त्वर्थप्रापणमेव, प्रतिबन्धादिसंभवात् । शक्तिश्च पदार्थानामात्मभूतैवेति
कस्तस्या अर्थान्तरादुत्पत्तिमिच्छेद्येन सा निषिध्येत । नहि तन्निष्पत्तावनिष्पन्नो
धर्मस्तत्स्वभावो युक्तोऽतिप्रसङ्गात् । सा च प्रमाणस्यात्मभूताऽपि सती भ्रान्तिका
रणसद्भावादनधिगततत्कार्यैरवमातुं न पार्यत इति परतोऽर्थक्रियाज्ञानाख्यात्कार्यं
निश्चीयते । अतो निश्चयापेक्षया परतःप्रामाण्यमित्युच्यते नोत्पत्त्यपेक्षया । तेन
कारणान्तरादुत्पादप्रतिषेधवैयर्थ्यं विवादाभावात् । निश्चयस्तु शक्तीनां परतो भव
द्भिरपीष्यत एव । यथोक्तम्— शक्तयः सर्वभावानां कार्यार्थापत्तिसाधनाः इति ।
यश्च— नहि स्वतोऽसती शक्तिः कर्तुमन्येन पार्यत इत्येष सामग्र्यन्तराद्भावनिषेधाय
हेतुरुपवर्ण्यतेऽसावप्रमाणेऽपि समान इति तदपि स्वत एव प्रसज्येत । नवा स
हेतुर्व्यभिचारात् । यच्चोक्तम् । नहि विधिमुखेन गुणानामप्रामाण्योत्पत्तौ व्यापारः
प्रतीतः सम्भवतीति, एतदप्यन्वयवचनमनुन्मीलितार्थं न ज्ञायते । कोऽयं विधि
मुखेन व्यापारो नामेति । यदि तावदिदं चेदं करिष्यामीति कार्योत्पादाय बुद्धिपूर्वा
प्रवृत्तिः, सा नेन्द्रियादिष्वपि संभवति । नहि भावानां प्रेक्षापूर्वकारिताऽस्ति, सर्व
भावानां क्षणिकत्वेन समीहाव्यापारयोरसम्भवात् । ततश्चेन्द्रियादेरपि विधिमुखेन
व्यापारासम्भवात्कारणत्वं न स्यात् । अथेन्द्रियादि विनापि क्रियाख्यव्यापारसमा
814 वेशं सत्तामात्रेण कार्योत्पत्तौ व्याप्रियत इति कारणमिष्यते, तदेतद्गुणेष्वपि समा
नम् । नहि सर्वकारणानां कार्योत्पत्तौ नियतः स्वसत्तासन्निधानव्यतिरेकेणान्यो व्या
पारः प्रतीतः संभवति । अथ गुणसन्निधाने दोषनिवृत्तौ सत्यां प्रामाण्यमुपजायत
इति दोषनिवृत्त्या व्यवहृतत्वात्साक्षाद्विधिमुखेन गुणानां व्यापारो न सम्भवतीत्यु
च्यते, तदेतद्दोषेष्वपि समानम् । तथाहि—दोषसन्निधानेऽपि गुणनिवृत्तौ सत्याम
प्रामाण्यमुपजायत इति दोषाणामपि विधिमुखेनाप्रामाण्योत्पत्तौ व्यापारो न स्यात् ।
ततश्चाप्रामाण्यमपि स्वतः प्रसज्येत, अविशेषात् । नहि दोषा गुणान्निराकृत्य साक्षा
दप्रामाण्ये व्याप्रियमाणाः समालक्ष्यन्ते । तस्मात्तद्भावाभावानुविधानव्यतिरेकेण
नान्यः कार्यकारणभावः सम्भवतीति दोषवद्गुणानामपि कारणत्वं समानम् । यच्चो
क्तम्—इन्द्रियादिरूपमेवान्यनिरपेक्षमर्थाविसंवादिज्ञानोत्पादकमिति, तदप्ययुक्तम् ।
अविकलकारणत्वेन सर्वज्ञानानां प्रामाण्यप्रसङ्गात् । बोधरूपतावत् । यथा बोधरूपता
ज्ञानानां समनन्तरप्रत्ययप्रतिबद्धा सती दोषादिसमवधानेऽप्यविकलकारणतया सर्वत्र
ज्ञाने भवति तथाऽर्थाविसंवादित्वमपि स्यात् । स्यादेतत्—दोषैरप्रामाण्यस्योत्पादे
सामान्यमविकलकारणमपि नोपजायते, प्रामाण्येतरयोरेकत्र ज्ञाने विरुद्धयोरयो
गात्, बोधरूपता तु निष्प्रतिद्वन्द्वा सर्वत्र भवत्येवेति, यद्येवं न तर्हीन्द्रिय(स्व)रू
पमेवान्यनिरपेक्षं कारणं सिद्ध्यति, सत्यपि तस्मिन्नविकले प्रामाण्याख्यकार्यानु
त्पत्तेः । नह्यन्यनिरपेक्षस्य कदाचिदजनकत्वं युक्तम् । नापि यद्यस्मिन्सत्यपि न
भवति तत्तन्मात्रकारणं युक्तमतिप्रसङ्गात् । किंचेदं तावच्च भवान्वक्तुमर्हति—यद्य
विकलकारणं प्रामाण्यं किमिति दोषसन्निधानेऽपि नोत्पद्यत इति । स्वविरूद्धकार
णस्य दोषस्य सन्निहितत्वादिति चेत् । अप्रामाण्येऽपि तुल्यम् । तस्यापि तदानीं
स्वविरुद्धकारणमिन्द्रियादिसन्निहितमित्युत्पत्तिर्माभूत् । किंच—यदि नाम विरुद्ध
कारणाद्दोषाद्बिभ्युतः प्रामाण्यस्यानुत्पत्तुमिच्छा स्यात्, स्वकारणं त्वप्रतिहतसामर्थ्यं
सत्तदानीं किमिति तदुपेक्षेत । एवं हि तेनात्मनोऽप्रतिहतशक्तिता प्रकटिता स्या
द्यदि स्वकार्यमुत्पत्तुमनिच्छदपि हठादुत्पादयेत् । दोषैरुपहतशक्तित्वादिन्द्रियं प्रा
माण्यं न जनयेत्, विज्ञानमपि नैव जनयेदसामर्थ्यात् । अन्यथा विज्ञानहेतुमात्र
जन्यं प्रामाण्यं न सिद्ध्येत्, तदुत्पत्तावप्यनुत्पत्तेः । यो हे यदुत्पत्तावपि नियमेन
नोत्पद्यते नासौ तेन सहैककारणः, यथा कोद्रवाङ्कुरोत्पत्तावप्यनुत्पद्यमानः । शाल्य
ङ्कुरः । नोत्पद्यते च विज्ञानोत्पत्तावपि प्रामाण्यं नियमेनेति व्यापकानुपलम्भः ।
815 नापि तत्स्वभावमखण्डयन्नात्मभूतां शक्तिं कश्चिदुपहन्तुं शक्नुयात् । ततश्चैवमपि
शक्यते पठितुम—स्वतःसर्वोपलब्धीनां प्रामाण्यमिति गृह्यताम् । नहि स्वतः सती
शक्तिर्हन्तुमन्येन पार्यते ॥ इति । स्यादेतत्—नेन्द्रियादिमात्रं प्रामाण्यकारणमिष्टम् ।
किं तर्हि ? । विशिष्टमेव यद्दोषरहितम्, तेन यथोक्तदोषाप्रसङ्ग इति । यद्येवम्,
सामग्र्यन्तरमेव गुणसहितमिन्द्रियादिप्रामाण्यकारणमिति प्राप्तम्, गुणसहितस्यैव
दोषरहितत्वसम्भवात् । ततश्च न वक्तव्यं सामग्र्यन्तरजन्यत्वासिद्धेरिति । दोषाप
गमे गुणानां व्यापारो न प्रामाण्योत्पत्ताविति चेत् । तन्न । अपगमस्यावस्तुत्वान्न
तत्र कस्यचिद्व्यापारो युक्तः । नह्यवस्तुनि शशविषाणादावनुत्पाद्यस्वभावे कस्यचि
द्व्यापारः सम्भवति । यच्चोक्तम्—विज्ञानोत्पादकमेव त्रैरूप्यमनुमानादौ प्रामाण्यो
त्पादकं दृष्टमिति, एतदप्यसिद्धम् । नहि त्रैरूप्यमेव केवलमनुमानस्योत्पादकम्, किं
तर्हि ?, प्रतिपत्तिर्गता (प्रतिपत्तृगता ?) अप्यमूढस्मृतसंस्कारा गुणाः । तथाहि—
सत्यपि त्रैरूप्ये प्रभ्रष्टसम्बन्धस्मृतिसंस्कारस्याप्रतीतसम्बन्धस्य च प्रतिपत्ति(त्तु?)
र्नोपजायतेऽअनुमानमित्यतोऽन्वयव्यतिरेकाभ्यां विज्ञानोत्पादकमेव प्रामाण्योत्पाद
कमित्येतदसिद्धम् । अतो विपर्ययो दुर्निवार एव व्यवस्थितः । यच्चोक्तम्—विपर्य
यज्ञानरूपं कार्यमिन्द्रियादिस्वरूपान्नोत्पद्यत इति, तदप्यतिसाहसम् । इन्द्रियानपे
क्षस्यापि विपर्ययज्ञानस्योत्पत्तिप्रसङ्गात् । नहि यो यतः स्वभावान्नोत्पद्यते, तस्य
तदपेक्षा युक्ताऽतिप्रसङ्गात् । नचेन्द्रियनिरपेक्षं तैमिरिकादिद्विचन्द्रादिज्ञानमुत्प
द्यते । किंच—यद्यर्थाविसंवादित्वं प्रामाण्यमुपवर्ण्यते तदा चोदनाजानिताया बुद्धेः
कथमर्थाविसंवादित्वमवगतम् । येन तत्र भवतामर्वाग्दर्शिनां प्रामाण्यव्यवहारः
स्यात् । नह्यविदिततत्कार्यैस्तच्छक्तिरवधारयितुं शक्यते, अतिप्रसङ्गात् । ततश्च
यस्यैव वेदस्य प्रामाण्यस्थिरीकरणप्रत्याशया सर्वमेतद्वाग्जालमुपरचितं तस्यैव तन्न
प्रसिद्धमिति केवलं तन्दुलार्थिना तुषकण्डनमेतत्कृतमित्यलमतिप्रसङ्गेन ।