एवं तावत्समन्वयादित्ययं हेतुः प्रतिषिद्धः । साम्प्रतं निगमनव्याजेन परिशिष्टहेतु
दूषणार्थं दिङ्मात्रमाह—प्रधानहेत्वभावेऽपीत्यादि ।


प्रधानहेत्वभावेऽपि ततः सर्वं प्रकल्पते ।

शक्तेर्भेदेन वैचित्र्यं कार्यकारणतादिकम् ॥ ४५ ॥

तत्र यत्तावदुक्तं परिमाणाच्छक्तितः प्रवृत्तेः कार्यकारणभावाच्चास्ति प्रधानमिति ।
एते त्रयोऽपि हेतवोऽनैकान्तिकाः, साध्यविपर्यये । बाधकप्रमाणानुपदर्शनात् । प्रधा
नाख्यस्य हेतोरभावेऽप्येषां परिमाणादीनामविरोधात् । तथाहि—यदि तावत्कारणमा
त्रस्यास्तित्वं साध्यते, तदा सिद्धसाध्यता, न ह्यस्माकं कारणमन्तरेण कार्यस्योत्पादोऽ
भीष्टः; कारणमात्रस्य च प्रधानमिति संज्ञाकरणे न किंचिद्बाध्यते । अथैवं साध्यते—
अस्ति प्रेक्षावत्कारणम्, यदेतन्नियतपरिमाणं व्यक्तिमुत्पादयति, शक्तितश्च प्रवर्त्तत
इति । तदाऽनैकान्तिकता, विनाऽपि हि प्रेक्षावता कर्त्रास्वहेतुसामर्थ्यप्रतिनियमा
त्प्रतिनियतपरिमाणादियुक्तस्योत्पत्त्यविरोधात् । न चापि प्रधानं प्रेक्षावद्युक्तं तस्याचे
तनत्वात् । प्रेक्षायाश्च चैतन्यप्रर्यायत्वात् । किंच—शक्तितः प्रवृत्तेरित्यनेन यद्यव्य
तिरिक्तशक्तियोगि कारणमात्रं साध्यते, तदा सिद्धसाध्यता । अथ व्यतिरिक्तविचित्र
040 शक्तियुक्तमेकं नित्यं कारणं तदाऽनैकान्तिकता हेतोः । तथाभूतेन क्वचिदप्यन्वयासि
द्धेरसिद्धश्च हेतुः, न हि व्यतिरिक्तशक्तिवशात्कस्यचित्कारणस्य क्वचित्कार्ये प्रवृत्तिः
सिद्धा, शक्तीनां स्वात्मभूतत्वात् । यच्चोक्तम्, अविभागाद्वैश्वरूपस्येतितदसिद्धम् ।
निरन्वयविनाशधर्मत्वात्सर्वभावानां क्वचिदपि लयासिद्धेः । तथाहि—लयो भवन्पूर्वस्व
भावप्रच्युतौ वा सत्यां भवेदप्रच्युतौ वा, यदि तावत्प्रच्युतौ तदा निरन्वयविनाशप्र
सङ्गः, अथाप्रच्युतौ तदा लयानुपपत्तिः, न ह्यविकलमात्मतत्वमनुभवतः कस्यचिल्ल
यो युक्तोऽतिप्रसङ्गात् । तस्मात्परस्परविरुद्धमिदमविभागो वैश्वरूप्यं चेति । तदेवं प्र
धानहेत्वभावेऽपि कारणस्य शक्तिभेदेन हेतुना कार्यस्य परिमाणादिरूपेण वैचित्र्यं
कार्यकारणविभागादिश्चोत्पद्यत इत्यनैकान्तिकता हेतूनाम् । आदिशब्देन शक्तितः
प्रवृत्तेरित्येतस्य ग्रहणम् । अथवा प्रधानहेत्वभावेऽपित्यपिशब्दोऽवधारणे । तेनायमर्थो
भवति । प्रधानहेत्वभाव एव कारणशक्तिभेदेन हेतुना कार्यस्य परिमाणादिरूपेण
वैचित्र्यं(त्र्यस्य ?) कार्यकारणतादेश्चोपपद्यमानत्वाद्विरुद्धता हेतूनामिति । तथाहि
—यदि प्रधानं व्यक्तस्य कारणं स्यात् तदा तदात्मत्वेन सर्वमेव विश्वं तत्स्वरूप
वदेकमेव द्रव्यं स्यात् । ततश्चैका बुद्धिरहङ्कारपञ्चतन्मात्राणीत्यादिपरिमाणविभागो न
स्यात् । तथा च सति निष्परिमाणमेव जगत्स्यात् । तथा कुलालादीनां घटादिकरणे
शक्तितः प्रवृत्तिः प्रधानहेत्वभाव उपपद्यते, न तु तद्भावे । यथोक्तं प्राक् न च
शक्तिर्न च क्रिये
ति । कार्यकारणविभागोऽपि प्रधानहेत्वभाव एव सति युक्तः ।
पूर्वमावेदितं वैश्वरूप्यं च प्रधाने सति नोपपद्यत एव । तन्मयत्वेन सर्वस्य जगतः
तत्स्वरूपवदेकत्वप्रसङ्गादित्युक्तम्, ततश्च वैश्वरूप्यमादित एव नास्तीति कुतस्तस्यावि
भागः स्यादिति ॥ ४५ ॥