041 विषयबुद्ध्युपेततया भिन्नगुणत्वाद्द्रव्यान्तरमेवेत्यपरे । ननु धर्माधर्मपरमाण्वादि जगतः
कारणमस्त्येव तत्किमर्थमीश्वरमपरं कारणत्वेन कल्पयन्तीत्यत आह—नाचेतनमि
त्यादि । यद्यपि धर्मादि कारणं तथाऽपि तदचेतनत्वादधिष्ठायकमन्तरेण न स्वयं स्व
कार्यमारब्धुमुत्सहत इत्यतस्तदधिष्ठायकेन केनचित्कर्त्रा भवितव्यम्, न हि किंचिद
चेतनं स्वतन्त्रमधिष्ठायकं दृष्टमिति । प्रयोगः—यदचेतनं तदधिष्ठातारमन्तरेण न
स्वकार्यमारभते, यथा मृत्पिण्डदण्डसलिलसूत्रादयः कुम्भकाररहिताः कुम्भम्, अचे
तनं च धर्मादीनीति व्यापकविरुद्धोपलब्धिः । तस्माद्योसावधिष्ठाता (स) ईश्वर इति
सिद्धम् । न चैवं सति धर्माधर्मादीनां वैयर्थ्यम्, निमित्तकारणत्वादीश्वरस्येति । स्या
देत
द्यदात्मसमवेतौ धर्माधर्मौ स एवात्माऽधिष्ठाता भविष्यति । तत्किमीश्वरेण परि
कल्पितेनेति । तदसम्यक् । तस्यात्मनस्तदानीमज्ञत्वात्, यावद्धि तस्य शरीरेन्द्रियादिः
कार्यकारणसंघातो नोत्पद्यते तावदयमज्ञ उपलभ्यानपि रूपादीन्विषयान्नोपलभते,
कुतोऽनुपलभ्यौ धर्माधर्मावुपलप्स्यत इति । यथोक्तम् अज्ञो जन्तुरनीशोयमात्मनः
सुखदुःखयोः । ईश्वरप्रेरितो गच्छेत्स्वर्गं वा श्वभ्रमेव वे
ति ॥ ४६ ॥


तत्राविद्धकर्णोपन्यस्तमीश्वरसाधने प्रमाणद्वयमाह—यत्स्वारम्भकेत्यादि ।


यत्स्वारम्भकावयवसन्निवेशविशेषवत् ।

बुद्धिमद्धेतुगम्यं तत्तद्यथा कलशादिकम् ॥ ४७ ॥

द्वीन्द्रियग्राह्यमग्राह्यं विवादपदमीदृशम् ।

बुद्धिमत्पूर्वकं तेन वैधर्म्यैणाणवो मताः ॥ ४८ ॥

तदुक्तम्— द्वीन्द्रियग्राह्याग्राह्यं विमत्यधिकरणभावापन्नं बुद्धिमत्कारणपूर्वकं स्वार
म्भकावयवसंनिवेशविशिष्टत्वात्, घटादिवत्, वैधर्म्यैण परमाणव इति । तत्र—
द्वाभ्यां दर्शनस्पर्शनेन्द्रियाभ्यां ग्राह्यं महदनेकद्रव्यवत्त्वरूपाद्युपलब्धिकारणोपेतं पृथि
व्युदकज्वलनसंज्ञितं त्रिविधं द्रव्यं द्वीन्द्रियग्राह्यम् । अग्राह्यं वाय्वादि, यस्मान्महत्वम
नेकद्रव्यवत्त्वं रूपसमवायादिश्चोपलब्धिकारणमिष्यते, तच्च वाय्वादौ नास्ति । यथो
क्तम्—महदनेकमहत्त्वादनेकद्रव्यवत्त्वाद्रूपाच्चोपलब्धिः । अद्रव्यवत्त्वात्परमाण्वाव(द्य ?)नुप
लब्धिः । रूपसंस्काराभावाद्वायो(र)नुपलब्धिः । रूपसंस्कारो रूपसमवायः । द्व्यणु
कादीनां त्वनुपलब्धिरमहत्त्वा
दिति । अत्र सामान्येन द्वीन्द्रियग्राह्याग्राह्यस्य बुद्धिम
त्कारणपूर्वत्वसाधने सिद्धसाध्यता दोषो घटादिषु । उभयसिद्धेः । विवादाभावात् ।