ननु यदि नाम प्रत्येकमनयोः कर्तृत्वं निषिद्धम्, तथाऽपि सहितयोरनिषिद्धमेव,
न हि केवलानां चक्षुरादीनां चक्षुर्ज्ञानोत्पत्तिं प्रति सामर्थ्याभावे सहितानामपि न
भवतीत्याशङ्क्याह—साहित्यमित्यादि ।


059
साहित्यं सहकारित्वादेतयोः कल्प्यतेकल्पिते च यत् ।

तत्स्यादतिशयाधानादेकार्थक्रिययाऽपि वा ॥ ९५ ॥

न युक्ता कल्पनाऽऽद्यस्य निर्विकारतया तयोः ।

न द्वितीयस्य कार्याणां यौगपद्यप्रसङ्गतः ॥ ९६ ॥

साहित्यं नाम सहकारित्वं तच्च द्विविधम्, परस्परातिशयाधानाद्वा स्यादेकार्थका
रित्वाद्वा । तत्र न तावदाद्यस्यातिशयाधानलक्षणस्य सहकारित्वस्य कल्पना युक्ता,
कस्मात् ? तयोरीश्वरप्रधानयोर्नित्यत्वेन निर्विकारत्वात् । नापि द्वितीयस्य, कल्पना
युक्तेति प्रकृतेन संबन्धः । कस्मात् ? कार्याणां यौगपद्यप्रसङ्गात् । अविकलाप्रतिह
तसामर्थ्यस्येश्वरप्रधानाख्यकारणस्य सदा सन्निहितत्वेनाविकलकारणात् । अत्र च
पूर्ववद्यदविकलकारणमित्यादि प्रसङ्गसाधनं वाच्यम् ॥ ९५ ॥ ९६ ॥