सर्वादृष्टिश्च सन्दिग्धा स्वादृष्टिर्व्यभिचारिणी ।

विन्ध्याद्रिरन्ध्रदूर्वादेरदृष्टावपि सत्वतः ॥ १२२ ॥

अपि चानुपलब्धेर्हेतुत्वेनोपादीयमाना सर्वपुरुषोपलम्भनिवृत्तिलक्षणा वोपादीयते ?
स्वोपलम्भनिवृत्तिलक्षणा वा ? न तावदाद्या, तस्या अर्वाग्दर्शनेन निश्चेतुमशक्यतया
066 संदिग्धत्वात् । न हि सर्वैः पुरुषैर्मयूरचन्द्रिकादीनामदृष्टं कारणं नोपलभ्यत इत्यत्रा
र्वाग्दर्शिनः किंचिदस्ति प्रमाणम् । याऽपि स्वेनादृष्टिः सा व्यभिभारिणी, कस्मात् ?
गिरिकुहरान्तर्गतस्य दूर्वाप्रवालशिलाशकलादेरनुपलब्धस्यापि सत्वतः—सत्वाविरो
धादित्यर्थः । तत्र निश्चितमेवासत्त्वं सन्देहात् ॥ १२२ ॥