130

यत्तर्हीदमुक्तम्— भारं वो भिक्षवो देशयिष्यामि भारादानं भारनिक्षेपं भारहारं
 । तत्र भारः पञ्चोपादानस्कन्धाः, भारादानं तृप्तिः, भारनिक्षेपो मोक्षः, भार
हारः पुद्गला इति, तदेतत्कथं नीयते, न हि भार एव भारहारो युक्त इत्याह—
समुदायादीत्यादि ।


समुदायादिचित्तेन भारहारादिदेशना ।

विशेषप्रतिषेधश्च तद्दृष्टीन्प्रति राजते ॥ ३४९ ॥

इति वात्सीपुत्रीयपरिकल्पितात्मपरीक्षा ।

तत्र समानकालाः स्कन्धा एव सामस्त्येन विवक्षिताः समुदायव्यपदेशभाजः, त
एव हेतुफलभूताश्च युगपत्कालभाविनः सन्तान इति व्यपदिश्यन्ते, एकाकारपरा
मर्शहेतवश्च संभवन्तः संतानिसमुदायिशब्दाभ्यां निर्दिश्यन्त इत्यतः, समुदायादि
चित्तेन—समुदायाद्यभिप्रायेण, भारहारादिदेशना, न विरुध्यत इति शेषः । प्रथमे
नादिशब्देन सन्तानादिपरिग्रहः, द्वितीयेन भारादेः । तत्र त एव स्कन्धाः समुदाय
सन्तानादिरूपेण विवक्षिताः पुद्गलो भारहार इति च व्यपदिश्यन्ते । तत्रैव लोके
पुद्गलाभिधानात् । अत एव भगवता— भारहारः कतमः पुद्गल इत्युक्त्वा,
योऽसावायुष्मन्नेवंनामा, एवंजातिः, एवंगोत्र, एवमाहार, एवं सुखदुःखं प्रति
संवेदी, एवं दीर्घायु
रित्यादिना पुद्गलो व्याख्यातः । स एवं स्कन्धसमुदाय
लक्षणः प्रज्ञप्तिः सन्नन्यथा विज्ञायेत नान्यो नित्यो द्रव्यं सन् परपरिकल्पितो विज्ञाये
तेति प्रदशार्थं (प्रदेशनार्थः ?) अवश्यं चैवं विज्ञेयम्, अन्यथा भारादीनामपि
स्कन्धेभ्यः पृथग्देशितत्वात्पुद्गलवत्स्कन्धानन्तर्गतं तत्स्यात् । तस्मात्त एव स्कन्धा ये
स्कन्धान्तरस्योत्पादाय वर्त्तन्ते पूर्वकास्ते भार इति कृत्वोक्ताः । ये तूपेष्यन्ते फल
भूतास्ते भारहारा इत्युक्ताः इत्यज्ञापकमेतत् । उद्योतकरस्त्वाह—आत्मानमनभ्युप
गच्छता नेदं तथागतवचनमर्थवत्तायां शक्यं व्यवस्थापयितुम्, यस्मादिदमुक्तम् ।
रूपं भदन्त नाहम्, वेदना संज्ञा संस्कारो विज्ञानं भदन्त नाहम्, एंवमेतद्भिक्षो रूपं
न त्वम्, वेदना संज्ञा संस्कारो विज्ञानं न त्व
मिति । एतेन हि रूपादयः स्कन्धा अह
ङ्कारविषयत्वेन प्रतिषिद्धाः । विशेषप्रतिषेधश्चायं न सामान्यप्रतिषेधः । आत्मानं
चानभ्युपगच्छता सामान्येनैव प्रतिषेद्धव्यम् । नैव त्वमसीति । विशेषप्रतिषेधस्त्वन्य
विधिनान्तरीयको भवति । यथा वामेनाक्ष्णा न पश्यामीत्युक्ते गम्यत एव दक्षिणेन
131 पश्यामीति । तेनाप्यदर्शने वामग्रहणमनर्थकम्, न पश्यामीत्येव वाच्यं स्यात् ।
तथेहापि न रूपमात्मा यावन्नहि विज्ञानमात्मेत्युक्ते तद्विलक्षणोऽस्त्यात्मेति सूचितं
भवति । स चावाच्योऽन्यो वा भवतु सर्वथाऽस्त्यात्मेति । अत्राह—विशेषप्रतिषे
धश्चे
त्यादि । एतदुक्तं भवति । विंशतिशिखरसमुद्गतोऽयं सत्कायदृष्टिशैलः कुमतीनां
प्रवर्त्तते । यदुत रूपमात्मा, यावद्विज्ञानमात्मा, रूपवानात्मा, यावद्विज्ञानवानात्मा,
आत्मनि रूपं यावद्विज्ञानमात्मनीति । तत्राद्यदृष्टिपञ्चकप्रतिषेधाय तद्दृष्टिकान्प्रति
विशेषरूपेण प्रतिषेधः शोभते । सारूपमात्मेत्यादिका दृष्टिर्येषां ते तद्दृष्टिकाः ।
यदेव हि मूढमतेराशङ्कास्थानं तदेवानूद्य निवर्त्त्यते । न त्वत्र कस्यचिद्विधिरमि
प्रेतः । अन्यथा ह्यश्रोतृसंस्कारकं वाक्यं ब्रुवाणोऽप्रेक्षावानेव प्रतिपादकः स्या
दिति ॥ ३४९ ॥