081

शङ्करस्वामी पुनरन्यथा प्रमाणयति, इच्छादयः क्वचिदाश्रिताः वस्तुत्वे सति
कार्यत्वाद्रूपादिवदिति, तद्दर्शयति—इच्छादयश्चेत्यादि ।


इच्छादयश्च सर्वेऽपि क्वचिदेते समाश्रिताः ।

वस्तुत्वे सति कार्यत्वाद्रूपवत्स च नः पुमान् ॥ १७८ ॥

वस्तुत्वग्रहणादेष न नाशे व्यभिचारवान् ।

हेतुमत्त्वेऽपि नाशस्य यस्मान्नैवास्ति वस्तुता ॥ १७९ ॥

वस्तुत्वग्रहणादित्यादिना वस्तुत्वे सतीति विशेषणस्य साफल्यं दर्शयति
॥ १७८ ॥ १७९ ॥