081

शङ्करस्वामी पुनरन्यथा प्रमाणयति, इच्छादयः क्वचिदाश्रिताः वस्तुत्वे सति
कार्यत्वाद्रूपादिवदिति, तद्दर्शयति—इच्छादयश्चेत्यादि ।


इच्छादयश्च सर्वेऽपि क्वचिदेते समाश्रिताः ।

वस्तुत्वे सति कार्यत्वाद्रूपवत्स च नः पुमान् ॥ १७८ ॥

वस्तुत्वग्रहणादेष न नाशे व्यभिचारवान् ।

हेतुमत्त्वेऽपि नाशस्य यस्मान्नैवास्ति वस्तुता ॥ १७९ ॥

वस्तुत्वग्रहणादित्यादिना वस्तुत्वे सतीति विशेषणस्य साफल्यं दर्शयति
॥ १७८ ॥ १७९ ॥


उद्द्योतकरस्तु प्रमाणयति, देवदत्तस्य रूपरसगन्धस्पर्शप्रत्यया एकानेकनिमित्ताः,
मयेति प्रत्ययेन प्रतिसन्धीयमानत्वात् । कृतसमयानामेकस्मिन्नर्तकीभ्रूक्षेपे युगपदनेकं
पुरुषाणां प्रत्ययवत् । अस्यायमर्थः—यथा किल नर्त्तकीभ्रूभङ्गानन्तरमस्माभिर्वस्त्राणि
प्रक्षेप्तव्यानीत्येवं कृतसमयानां बहूनां नानाकर्त्तृका नानाभूताः प्रत्यया निमित्तस्य
भ्रूभङ्गस्यैकत्वान्मया दृष्टो मया दृष्ट इति प्रतिसन्धीयन्ते, तथेहापि नानाविषयाः
प्रत्यया निमित्तस्यैकत्वात्प्रतिसन्धास्यन्ते । यच्च तदेकं निमित्तं स आत्मेति । प्रतिस
न्धानं पुनर्मया दृष्टं मया श्रुतमित्येवमादीनां प्रत्ययानामेकज्ञातृनिमित्तत्वेन घटनम् ।
नर्त्तकीभ्रूक्षेपे तु प्रत्ययानामेकविषयत्वापादनम् । सर्वथा प्रतिसन्धानमुच्यते यदेकमर्थं
निमित्तीकृत्य प्रत्ययानां संबन्धनम् । तदेतत्प्रमाणं दर्शयन्नाह—रूपादिप्रत्यया इति ।


रूपादिप्रत्ययाः सर्वेऽप्येकानेकनिमित्तकाः ।

मयेति प्रत्ययेनैषां प्रतिसन्धानभावतः ॥ १८० ॥

नर्त्तकीभ्रूलताभङ्गे बहूनां प्रत्यया इव ।

अन्यथा प्रतिसन्धानं न जायेतानिबन्धनम् ॥ १८१ ॥

सुबोधम् ॥ १८० ॥ १८१ ॥


अयमपरस्तदीयः प्रयोगः—आत्मेति पदं शरीरेन्द्रियमनोबुद्धिवेदनासंघातव्यति
रिक्तवचनं प्रसिद्धपर्यायव्यतिरिक्तत्वे सत्येकपदत्वात् घटादिशब्दवत् । तदाह—
बुद्धिन्द्रियादीत्यादि ।


बुद्धीन्द्रियादिसंघातव्यतिरिक्ताभिधायकम् ।

आत्मेति वचनं यस्मादिदमेकपदं मतम् ॥ १८२ ॥