अन्ये पुनरिहात्मानमिच्छादीनां समाश्रयम् ।

स्वतोऽचिद्रूपमिच्छन्ति नित्यं सर्वगतं तथा ॥ १७१ ॥

080
शुभाशुभानां कर्त्तारं कर्मणां तत्फलस्य च ।

भोक्तारं चेतनायोगाच्चेतनं न स्वरूपतः ॥ १७२ ॥

ज्ञानयत्नादिसम्बन्धः कर्तृत्वं तस्य भण्यते ।

सुखदुःखादिसंवित्तिसमवायस्तु भोक्तृता ॥ १७३ ॥

निकायेन विशिष्टाभिरपूर्वाभिश्च सङ्गतिः ।

बुद्धिभिर्वेदनाभिश्च जन्म तस्याभिधीयते ॥ १७४ ॥

प्रागात्ताभिर्वियोगस्तु मरणं जीवनं पुनः ।

सदेहस्य मनोयोगो धर्माधर्माभिसत्कृतः ॥ १७५ ॥

शरीरचक्षुरादीनां वधाद्धिंसाऽस्य कल्प्यते ।

इत्थं नित्येऽपि पुंस्येषा प्रक्रिया विमलेक्ष्यते ॥ १७६ ॥

(...................................
................)॥ १७१ ॥ १७२ ॥ १७३ ॥ १७४ ॥ १७५ ॥ १७६ ॥