( सदाद्यविशेषविषयाविषयोभयात्मकज्ञेयप्रत्यक्षानुमानोपमानशाब्दसिद्धदर्शनप्रा
तिभज्ञानारेकविपर्यय )स्वप्नस्वप्नान्तिकाः प्रज्ञानविशेषा मदीयशरीरादिव्यतिरिक्तसंवेद
कसंवेद्याः स्वकारणायत्तजन्मवत्त्वसामान्यविशेषवत्त्वबोधात्मकत्वाशुतरविनाशित्वसं
स्काराधायकत्वप्रत्ययत्वेभ्यः पुरुषान्तरप्रत्ययवत् वैधर्म्येण प्रमिताप्रशस्तमिता(?) घटादय इति ।
तत्र सदादयः षडविशेषाः पूर्वं व्याख्याताः । तेषां सदादीनां षण्णां विषयो द्रव्य
गुणकर्माणि । अविषयः सामान्यविशेषसमवायाः । तदेतदुभयात्मकं ज्ञेयं विषयः
प्रत्यक्षादीनां ज्ञानविशेषाणां ते तथोक्ताः । प्रत्यक्षानुमानोपमानेत्यादिस्तु द्वन्द्वनिर्देशः ।
सिद्धदर्शनं ज्योतिःशास्त्राद्युपनिबद्धम् । तद्धि सिद्धानां दर्शनं सिद्धं वा दर्शनमिति
कृत्वा सिद्धदर्शनमुच्यते । प्रातिभं तु ज्ञानमार्षं यथाश्वो मे भ्राता गमिष्यतीति ।
तद्धि प्रायेणर्षीणां भवतीति कृत्वार्षमुच्यते । आरेकः संशयः । विपर्ययो विपर्यासः ।
प्रथमस्वप्नावस्थाभावी प्रत्ययः स्वप्नः । तद्विषयं स्वप्नेऽपि यदपरं ज्ञानं भवति स स्वप्ना
न्तिकः । एत एव प्रज्ञानविशेषाः । शेषं सुबोधम् । तदेतत्प्रमाणमर्थंतो निर्दिशन्नाह—
ज्ञानानि चेत्यादि ।


ज्ञानानि च मदीयानि तन्बादितत्वादिव्यतिरेकिणा ।

संवेदकेन वेद्यानि प्रत्ययत्वात्तदन्यवत् ॥ १७७ ॥

तन्बादितत्वादीत्यत्रादिशब्देन बुद्धीन्द्रियवेदनाः परिगृह्यन्ते । प्रत्ययत्वादित्युपलक्षणम् ।
तदन्येऽपि स्वकारणायत्तजन्मवत्त्वादयो ग्राह्याः ॥ १७७ ॥