यच्चोक्तमेकाधिकरणावित्यादि, तत्रापि दृष्टान्तस्य साध्यविकलतेति दर्शयन्नाह—
एकाधिकरणौ सिद्धावित्यादि ।


एकाधिकरणौ सिद्धौ नैवैतौ लौकिकावपि ।

बन्धमोक्षौ प्रसिद्धं हि क्षणिकं सर्वमेव तत् ॥ ५४५ ॥

सर्वमेव हि वस्तूदयानन्तरापवर्गीति प्रसाधितं यदा तदा न क्वचिदेकाधिइकरणत्वं
बन्धमोक्षयोः प्रसिद्धमस्तीत्यप्रसिद्धो दृष्टान्तः ॥ ५४५ ॥


185

तदेवं स्वपक्षं व्यवस्थाप्य सर्वथेत्यादिना परपक्षं प्रतिषेधयति ।