न ह्यलब्धात्मकं वस्तु पराङ्गत्वाय कल्पते ।

न विनष्टं नच स्थानं तस्य कार्यकृतिक्षमम् ॥ ४८३ ॥

पूर्वक्षणविनाशे च कल्प्यमाने निरन्वये ।

पश्चात्तस्यानिमित्तत्वादुत्पत्तिर्नोपपद्यते ॥ ४८४ ॥

अनागतं हि नामोच्यते यदलब्धात्मतत्वम्, यच्चालब्धात्मतत्त्वं तदसत्, यच्चास
त्तदशेषसामर्थ्यशून्यम्, यच्चाशेषसामर्थ्यरहितं तत्कथं पराङ्गत्वाय कल्पते—परं
प्रति हेतुभावं प्रतिपद्यत इत्यर्थः । समर्थस्यैव हेतुभावसंप्रतिपत्तेः । एवं विनष्टमपि
सर्वसामर्थ्यशून्यत्वान्न पराङ्गत्वाय कल्पत इति संबन्धः । न चापि वर्त्तमानस्य
स्थानमस्ति, यत्कार्यकृतौ—कार्यकरणे क्षमं भवेत् । किंच—यदि पूर्वकक्षणो निर
न्वयं विनश्यतीति कल्प्यते तदा पाश्चात्त्यस्य क्षणस्य निमित्ताभावादुत्पत्तिर्न प्राप्नोति
॥ ४८३ ॥ ४८४ ॥