मनःसाधनहेतोरपि सामान्येन कारणमात्रे साध्ये सिद्धसाध्यतेति दर्शयति—
चक्षुरादीत्यादि ।


चक्षुराद्यतिरिक्तं तु मनोऽस्माभिरपीष्यते ।

षण्णामनन्तरोद्भूतप्रत्ययो यो हि तन्मनः ॥ ६३१ ॥

नित्ये तु मनसि प्राप्ताः प्रत्यया यौगपद्यतः ।

तेन हेतुरिह प्रोक्तो भवतीष्टविघातकृत् ॥ ६३२ ॥

विशेषेण तु नित्यैकमनस्साधनेऽनन्वयः प्रतिज्ञाया अनुमानबाधा विरुद्धता च
हेतोर्दर्शयति—नित्ये त्वित्यादि । इष्टविघातकृदिति । चक्षुरादिव्यतिरिक्तानित्यकार
णसापेक्षत्वसाधनात्, अन्यथा नित्यकारणत्वे सत्यविकलकारणत्वात्क्रमोत्पत्तिर्विरु
ध्येत चेतसाम् ॥ ६३१ ॥ ६३२ ॥