तामेव च विरुद्धतां हेतोरुपहासपूर्वकं दृढीकुर्वन्नाह—सौगतेत्यादि ।


210
सौगतापरनिर्दिष्टमनःसंसिद्ध्यसिद्धये ।

साकारमन्यथाऽऽवृत्तं मन्ये सूत्रमिदं कृतम् ॥ ६३३ ॥

इति द्रव्यपदार्थपरीक्षा ।

एतदेवं मन्ये सौगततीर्थिकयोरभीष्टस्य मनसः सिद्ध्यसिद्ध्यर्थमिदं युगपत् ज्ञा
नानुत्पत्तिर्मनसो लिङ्ग
मिति सूत्रम् । एकस्मिन्पक्षेऽकारप्रश्लेषादिति समुदायार्थः ।
अवयवार्थस्तूच्यते । सौगताश्चापरे च तीर्थिकास्तैर्निर्दिष्टे च ते मनसी चेति विग्रहः ।
तयोर्यथाक्रमं संसिद्ध्यसिद्धी संसिद्धिसहिता वाऽसिद्धिः, तदर्थं तन्निमित्तम् । कथं
पुनरेकं सूत्रं विरुद्धमर्थद्वयं गमयतीत्याह—साकारमित्यादि । सहाकारेण वर्त्तत इति ।
परकीयमनोऽसिद्ध्यर्थमलिङ्गमिति प्रश्लिष्टाकारो निर्देशः । सौगतमनस्सिद्धयेऽन्यथा
भवति—अनकारमित्यर्थः । साकारत्वानकारत्वे कथमेकस्य सिद्ध्यत इत्याह—
वृत्त
मिति । आवृत्तिस्तत्र न्याय्येति यावत् ॥ ६३३ ॥