तत्र क्षित्यादीत्यादिना द्रव्यपदार्थप्रतिषेधार्थं तावत्तद्विभागमाह—


क्षित्यादिभेदतो भिन्नं नवधा द्रव्यमिष्यते ।

चतुःसङ्ख्यं पृथिव्यादि नित्यानित्यतया द्विधा ॥ ५४९ ॥

विभक्तस्य हि भेदेन सुखं दूषणस्य वक्तुं शक्यत्वादिति भावः । नवधेति । पृ
थिव्यापस्तेजोवायुराकाशं कालो दिगात्मा मन इति सूत्रात् । तत्र पृथिव्यापस्तेजो
वायुरित्येतच्चतुःसङ्ख्यं द्रव्यं नित्यानित्यभेदेन द्विप्रकारम् ॥ ५४९ ॥


186

तदेव द्वैविध्यमस्य दर्शयन्नाह—पृथिव्याद्यात्मकास्तावदित्यादि