211
क्व कस्य समवायश्च संबन्धिन्यपहस्तिते ।

विशेषप्रतिषेधोऽयं तथापि पुनरुच्यते ॥ ६३५ ॥

पञ्चपदार्थवृत्तिरूपो हि समवायो वर्ण्यते । द्रव्यादौ च संबन्धिनि पञ्चप्रकारेऽ
पहस्तिते क्व कस्य समवायो नैव कस्यचित्क्वचिदित्यर्थः । सर्वेषामाश्रयाश्रितानां प्रति
षिद्धत्वात् तत्र गुणानां तावद्विशेषप्रतिषेध उच्यते ॥ ६३५ ॥


तत्र रूपरसगन्धस्पर्शाः सङ्ख्यापरिमाणानि पृथक्त्वसंयोगविभागौ परत्वापरत्वे
बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्च गुणा
इति सूत्रम् । चशब्दाद्गुरुत्वद्रवत्वस्नेहसं
स्कारधर्माधर्मशब्दाश्च परिगृह्यन्ते । तत्र रूपं चक्षुर्ग्राह्यं पृथिव्युदकज्वलनवृत्ति । रसो
रसनेन्द्रियग्राह्यः पृथव्युदकवृत्तिः । गन्धो घ्राणग्राह्यः पृथिवीवृत्तिः । स्पर्शस्त्वगि
न्द्रियग्राह्यः क्षित्युदकज्वलनवायुवृत्तिः । एषां चतुर्णामाद्यानां रूपादीनां प्रतिषे
धमाह—द्रव्ये महतीत्यादि ।


द्रव्ये महति नीलादिरेक एव यदीष्यते ।

रन्ध्रालोकेन तद्व्यक्तौ व्यक्तिर्दृष्टिश्च नास्य किम् ॥ ६३६ ॥

महत्येव हि द्रव्ये समवेतानामुपलब्धिलक्षणप्राप्तत्वमतो महतीत्याह । तत्र च
द्रव्ये यद्येकमेवानवयवं नीलादि चतुर्विधमिष्यते, तदा सूक्ष्मेणाऽपि कुञ्चिकादि
विवरवर्त्तिना प्रदीपाद्यालोकेन त्वपवरकादिस्थितपृथुतरघटादिद्रव्यसमवेतस्य नीलादि
रूपस्याभिव्यक्तौ सत्यां सकलस्यैव यावद्द्रव्यवर्त्तिनो रूपादेरभिव्यक्तिरुपलब्धिश्च
प्राप्नोति निरवयवत्वात् । नह्येकस्यावयवाः सन्ति, येनैकदेशाभिव्यक्तिर्भवेत् । रन्ध्रा
लोकेनेत्युपलक्षणम् । भुव एकदेशे जलेन गन्धस्याभिव्यक्तौ प्रदेशान्तरेप्यभिव्यक्त्यु
पलब्ध्योः प्रसङ्गः । ज्वालादेराम्रफलादेश्चैकदेशस्य स्पृष्टावास्वादने च तद्द्रव्यसमवा
यिनस्तावतः स्पर्शस्य रसस्य चोपलब्धिः स्यात् ॥ ६३६ ॥


स्यादेतद्भवत एव सकलस्य नीलादेरुपलब्ध्यभिव्यक्ती इत्याह—न चेत्यादि ।


न च देशविभागेन स्थितो नीलादिरिष्यते ।

व्यज्यते यस्तदा तेन तस्य भेदोऽणुशस्ततः ॥ ६३७ ॥

तदेति । तस्मिन्काले । तेनेति । रन्ध्रालोकेन । तस्येति । नीलादेः । अणुशः
स्वभेदेऽङ्गीक्रियमाणे पृथिव्यादिपरमाणुद्रव्यवदणुपरिमाणयोगित्वेन गुणवत्त्वाद्द्रव्यरू
पतैव स्यात्, न गुणत्वम् । एवम्भूतानां चाणुशो भिन्नानां गुण इति संज्ञाकरणेन